This page has not been fully proofread.

१०२
 
कामसूत्रम् ।
 
सुवर्णनाभस्य त्वधिकमेकाङ्गोपगृहनचतुष्टयम्
सुवर्णनामस्य वाअवीयादुपगूहनाष्टकादनेन विकल्पवर्गस्याधिक्यमित्ये-
कः प्रकारः । तेनोरोरूर्ध्वमागेन जघनेन यन्त्रस्यायोगे योगे वा जघनम-
वपीड्येत्याधिक्यं दर्शयति । एकाङ्गोपगूहनचतुष्टयं संप्रयोगकाल इति व-
र्तते । एकेनाङ्गेन सजातीयस्याङ्गस्य प्राधान्येन संश्लेषणात्तथोक्तम् ।
 
तत्रोरुसंदंशेनैकग्रूरुग्रूरुद्वयं वा सर्वप्राणं पीडयेदित्यूरूपगूहनम् ॥
एैकमूरुमूरुद्वयं वेति पार्श्वसुप्तस्य पुंसः स्त्रिया वा । अत्र विशेषा-
भावाहूयोरपि प्रयोक्तृत्वम् । यस्योरुस्थलमतिविपुलं स प्रयोक्तेति केचित् ।
सर्वप्राणमिति क्रियाविशेषणम् । अतिपीडनं हि मांसस्थानेऽत्यन्तसुख-
कारि स्यात् ।
 
जघनेन जघनमवपीड्य प्रकीर्यमाणकेशहस्ता नखदशनमहणन-
चुम्वनप्रयोजनाय तदुपरि लङ्घयेतज्जघनोपगूहनम् ॥
 
जघनेन जघनमिति । पार्श्वशयनेन वैराङ्गेण साधनं वाडवकेनापीड्येत्येकः
प्रकारः । नाभेरधोभागेन जघनेन यन्त्रस्यायोगे वा जघनमवपीड्येति
द्वितीयः । तत्र स्त्रीजघनस्यातिशृङ्गारत्वात्तैव शोभते । विशेषतो विपुल-
जघना । प्रकीर्यमाणकेशहस्तेति प्रयोगसंस्कारः । नखादीनि स्वेच्छ्या
प्रयोज्येति । तत्प्रयोजनं तु फलम् । उपरि लङ्घयेन्नायकस्योपरि ति-
ष्ठेदित्यर्थः ।
 
स्तनाभ्यासुरः प्रविश्य तत्रैव भारमारोपयेदिति स्तनालिङ्गनम् ॥
स्तनाभ्यामुर इति । आसने पार्श्वशयने वा पृष्ठभागं निम्नीकृत्य स्त
नाभ्यां नायकोरःस्थलं प्रविश्य तत्रैवेत्युरसि भारमारोपयेत् । स्तनस्येत्य-
र्थात् । एवं हि नायकः स्तनभाराक्रान्ते पिण्डीकृतमिवोरसि स्पर्शसुखम-
नुभवति ।
 
मुखे मुखमासज्याक्षिणी अक्ष्णोर्ललाटेन ललाटमाहन्यात्सा
ललाटिका ।
 
७ आदितोऽध्यायः]
 

 
१. 'अधोभागेन.' २. 'तथा चोकम्.' ३. 'एकमूरुद्वयमेवेति' ४. 'यस्योपस्थम्.'
५. 'वराहेन जघनं यन्त्रयोगेनाव्यापीय. ' ६. 'भावमावेशयेत्.' ७. 'भावम्.'