This page has not been fully proofread.

S २ अध्यायः]
 
२ सांप्रयोगिकमधिकरणम् ।
 
१०१
 
s
 
शयनगतावेवेति । अत्रोरुव्यत्यासं चेति क्रियाविशेषणम् । व्यत्यासो
विपर्यासः । तत्र वामपार्श्वसुतायाः स्त्रिया ऊर्वन्तरे दक्षिणपार्श्वे सुप्तः पु-
मान्वाममूरुम्, दक्षिणकक्षान्तरे च वामभुजं प्रवेशयेत् । योषिदपि पुंसः ।
२ इत्येको व्यत्यासः । इतरपार्श्वसुताया द्वितीयस्य संधैर्पार्थमिव घनं निर-
न्तरं संखजेते स्त्रीपुंसावुपगूहेते इति । तिलतण्डुलकमिति ऊरुभुजानां
तनुस्थानां तिलतण्डुलानामिवोर्ध्वस्थित्या संमिश्रणात् ।
 
रागान्धावनपेक्षितात्ययौ परस्परमनुविशत इवोत्सङ्गगतायाम-
भिमुखोपविष्टायां शयने वेति क्षीरजलकम् ॥
 
V
 
अनपेक्षितात्ययाविति । रागान्धत्वादनपेक्षितास्थिमङ्गदोषौ परिष्वज-
मानौ परस्परमनुप्रविशत इव । बाहुयन्त्रेणातिपीडनान्मृत्पिण्डाविव क्षी-
रोदकवच्च तादात्म्यं प्रतिपद्येते इव । यथोक्तम् – 'भावासक्ताः कामुकाः
। कामिनीनामिच्छन्त्यङ्गेष्वम्भसीव प्रवेष्टुम् इति । कथमिदं निप्पद्यत इ-
त्याह———उत्सङ्गगतायामिति । नायकोत्सङ्गे बहिरूरू । विन्यस्याभिमुख-
मुपविष्टायां सैत्याम् । अत्र कक्षयो कक्षयोर्यथायोगं संश्लिष्टयोः कुँचयो-
बहुयनं स्यात् । शयने वेति । पार्श्वलुप्तयोरित्यर्थः । तिलतण्डुलकं
+ पुनरत्रैव ।
 
7
 
;
 
i
 
i
 
.
 
तदुभयं रागकाले ॥
 
तदुभयमिति रागस्य वृद्धत्वात्तत्काल एव द्रष्टव्यम् । संप्रयोगकाल-
विशेषश्च रागकालः । यत्र पुंसः स्थिरलिङ्गता, स्त्रियाश्च क्लिन्नसंबाघता,
तत्र च यन्त्रयोगात्प्राग्यथोक्तमेवालिङ्गनम् । यन्त्रयोजनेन तु संवेशनप्र-
कारानुरोघाद्योज्यम् ।
 
,
 
इत्युपग्रहनयोगा वाभ्रवीयाः ॥
 
बावीया इति बाम्रव्येन प्रोक्ता उपगूहनप्रकाराः ।
 
१. 'न प्रवेशयेत्.' २. 'संघर्वार्थमिव सस्पर्धमिव', 'सघर्षमिव सघर्पार्थमिव,' 'संघ-
र्षमिव.' ३. 'सत्याम्' इति पुस्तकान्तरे नास्ति. ४. 'वै कक्षयोः' इति पुस्तकान्तरे
नास्त्रि. ५. 'कुचयोः' इति पुस्तकान्तरे नास्ति ६. 'पार्श्वयोरित्यर्थ:.' ७. 'रागस्य'
इति पुस्तकान्तरे नाखि. ८. 'पुसामू.' ९. 'एव' इति पुस्तकान्तरे नाति.