2023-02-19 13:59:01 by ambuda-bot
This page has not been fully proofread.
१००
कामसूत्रम् ।
७ आदितोऽध्यायः]
वक्ष्यति । तन्मन्दं यस्याः । उल्वणस्य रागकालवत्त्वात् । अनेन प्रयोगसं-
स्कारमाह । प्रयोगान्तरपरिष्कृतं सुतरां मनोहारि स्यात् । तमाश्रिता
वेति द्वितीयं फलम् । यद्वा तथैव नायिकमाश्रिता अन्यत्र वामलेख्यादेः
स्तनमुखस्य दशनपदाङ्कितस्य वा रामणीयकमुन्मुखी पश्येत्तल्लतावेष्टित-
मिव लतावेष्टितकम् । प्रतिकृतौ कन् ।
चरणेन चरणमाक्रम्य द्वितीयेनोरुदेशमाक्रमन्ती वेष्टेयन्ती वा
तत्पृष्ठसक्तैकवाहुर्द्वितीयेनांसमवनमयन्ती ईषन्मन्दसीत्कृतक्कूजिता
चुम्बनार्थमेवाधिरोदुमिच्छेदिति वृक्षाधिरूढकम् ॥
चरणेनेति । श्वेन चरणेन नायकस्य चरणमाक्रम्य द्वितीयेन चरणे-
नोरुदेशपार्श्वभागेनाक्रमन्ती यथा जघनघटनस्थानं संश्लिष्टं स्यात् ।
तत्र वामदक्षिणभेदाद्विविधम् । वेष्टयन्ती वेति बेहिनत्वा द्वितीयभागमा-
नमयेच्चरणमित्यर्थः । तदपि वामदक्षिणमेदाद्विविधम् । द्वाभ्यां च यदा-
क्रमणमूर्वोर्वेष्टनं तदुभयमपि वृक्षाधिरूढकमत्रैवान्तर्गतम् । सामान्यवि-
घिमाह तत्पृष्ठसक्तैकबाहुरिति । नायकपृष्ठे लतावेष्टनवल्लम एको वा
हुर्वामो दक्षिणो वा यस्याः । द्वितीयेन बाहुना स्कन्धभागमवनमयन्ती ।
ईषदिति । अनुरागकालत्वात् । मन्दानि खिन्नानि श्वसितकादीनि
यस्या इत्यर्थः । अनेन संप्रयोगसंस्कारमाह । अत्र सीत्कृतं सीत्करण -
मेव । कूजितस्य लक्षणं वक्ष्यति । चुम्बनार्थमेव नै रामणीयकदर्शनार्थम् ।
मनागूरूव्यावृतस्यासंभवात् । अघरपल्लवचुम्बनेनोरुव्यत्यासेन प्रयोगफ-
लम् । वृक्षाधिरूढकमिति पूर्ववत् ।
तदुभयं स्थितकर्म ।
तदुभयं स्थितक्रर्मेति । ऊर्ध्वस्थितयोर्यत्र योगः स्यात्, द्वाभ्यां रागज-
ननार्थं तावदिदं कर्म ।
शयनगतावेवोरूव्यत्यासं भुजव्यत्यासं च ससंघर्षमिव घनं सं-
स्वजेते तत्तिलतण्डुलकम् ॥
१. 'अन्यन्यवाम'. २. 'वेष्टयन्ती' इति पुस्तकान्तरे नास्ति. ३. 'ईषत्कृतान्तःश्वसित-
कूजिता.' ४. 'बहिनींव्या.' ५. 'न न.' ६. 'एव' इति पुस्तकान्तरे नास्ति