This page has not been fully proofread.

२ अध्यायः]
 
२ सांप्रयोगिकमधिकरणम् ।
 
९९
 
र्षणं सिद्धं भवति । परस्परस्येति नायकगात्रेण नायिकागात्रस्य तद्द्वात्रेण
चेतरगात्रस्य घर्षणमुद्धृष्टकमुभयजन्यम् । एकनिष्पाद्यं तु घृष्टकं वा मतो-
ऽत्रैवान्तर्गतम् ।
 
तदेव कुंड्य संदंशेन स्तम्भसंदंशेन वा स्फुटकमवपीडयेदिति
पीडितकम् ॥
 
तदेवेति । उद्धृष्टकं पीडितकं भवति । कथमित्याह—कुड्यसंदंशेनेति ।
संदंश उभयतो ग्रहणम् । अर्थान्नायकः परतः कुंड्यं स्तम्भो वा । तेन
स्फुटकं हृढमवपीडिते सति तत्पीडितकमेकजन्यमेव द्विविधम् ।
V तदुभयमवगतपरस्पराकारयोः ॥
 
i उभयमुद्धृष्टकं पीडितकं च द्रष्टव्यम् । अवगतपरस्पराकारयोरिति गृ-
- हीतान्योन्यभावयोरसमागतयोः । पूर्वस्मादनयोरधिकोपक्रमत्वात् । अगृही-
ताकारयोस्तु नैवेत्यर्थोक्तम् ।
 

 
लतावेष्टितकं वृक्षाधिरूढकं तिलतण्डुलकं क्षीरनीरकमिति च
: त्वारि संप्रयोगकाले ॥
 
संप्रयोगकाल इति । कृतार्द्रीकरणयोस्तु समागतयोः संप्रयोगः । त-
त्काले चत्वार्युपगूहनानि । तत्राद्ययोरेकजन्यत्वेऽपि नायिकैव प्रयोकी ।
तदनुरूपत्वात् । शेषयोरुभयजन्यत्वादुभावपि ।
 
लतेव शालमावेष्टयन्ती चुम्बनायें मुखमवनमयेत् । उद्धृत्य मन्द-
सीत्कृता तमाश्रिता वा किचिद्रामणीयकं पश्येत्तल्लतावेष्टितकम् ॥
 
लतेव शालमिति । यथा लता वृक्षर्मांवेष्टयते तद्वन्नायिका नायकमू-
र्ध्वस्थितमभिमुखं कक्षयोः कण्ठे बाहुलताभ्यामावेष्टयेति चतुर्विषं लतावे.
ष्टितकम् । चुम्बनार्थिनी यत्तु मुखमवनमयेत नायकवृक्षस्योच्चत्वात् । तथा
लिष्टाभ्यामेव वाहुपाशाभ्यां तच्छरीरावनमनान्मुखमवनमितं भवति ।
अनेन प्रयोगे फलं दर्शयति । अत्र प्रयोज्यं चुम्वनफलस्य विवक्षितत्वा-
न्मौलम् । प्रयोगस्य यद्रागस्य जननं वर्धनं च । मन्दसीत्कृतेति । सीत्कृतं
 
1
 
१. 'स्पृष्टकम् . ' २. 'संदशे स्तम्मसदशे वा.' ३. 'स्फुटम् ' ४. 'कुष्य:.' ५. 'सं-
प्रयोगे.' ६. 'आवेष्टयति'. ७. 'चतुर्विधम्' इति पुस्तकान्तरे नास्ति.