This page has not been fully proofread.

२२ अध्यायः]
 
२ सांप्रयोगिकमधिकरणम् ।
 
९७
 
नात्तव्यपदेशो रूढिवशात् । तथाष्टानां बाहुल्येनाष्टषा भेदात्तद्व्यपदेशे-
- नाष्टावेवाष्टघेति ।
 
तत्र शास्त्रस्य चतुःषष्टया प्रस्तुतत्वात्कलासमूहस्य च विद्यासमुद्देशे
समुद्दिष्टत्वात्पाञ्चालिकी चतुःषष्टिमाह-
तत्रालिङ्गनपूर्वकत्वाचुम्बनादीनामालिङ्गनविचारा उच्यन्ते । विचाराध
कालस्वरूपाभ्याम् । तत्रालिङ्गनमसमागते समागते च । तत्र पूर्वमधि-
कृत्याह--
तत्रासमागतयोः प्रीतिलिङ्गद्योतनार्थमालिङ्गनचतुष्टयम् - स्पृष्ट
कम्, विद्धकम्, उद्धृष्टकम्, पीडितकम्, इति ॥
 
असमागतयोरिति । असंघटितपूर्वयोः संघटितयोः । प्रीतिलिङ्गद्योत-
- नार्थमिति । अनुरागस्य लिङ्गिनः स्पृष्टकादि लिङ्गम् । तत्प्रकाशनात् । त-
दभियोगकाले द्रष्टव्यम् । स्पर्शगोचरे सति । तदभावे सति संक्रान्तकमा
भियोगिकं वक्ष्यति ।
 
सर्वत्र संज्ञार्येनैवं कर्मातिदेशः ॥
 
सर्वत्रेति । चुम्बनादिप्वपि संज्ञार्येन कर्मातिदेश इत्यन्वर्थतां दर्शयति ।
। स्पृष्टकादिसंज्ञानां प्रवृत्तिनिमित्तार्थः स्पर्शनादिकः । तेनैव कर्मातिदेश
= इदमेव कार्यमिति ।
 
संमुखागतायां प्रयोज्यायामन्यापदेशेन गच्छतो गात्रेण गात्रस्य
स्पर्शनं स्पृष्टकम् ॥
 
संमुखागतायामिति । नायिकायामभिमुखमागतायाम् । प्रयोज्या-
यामिति । आलिङ्गनादि प्रयोजयितुं तत्र वा प्रयोक्तुं न शक्यते । अन्याप-
* देशेनेति । अन्यदपदिश्यागच्छतः प्रयोक्तः । यथान्यो न जानाति बुद्धि-
६ कारितमस्येति । गात्रेण स्वस्य गात्रस्य प्रयोज्यायाः सर्शनमिति संज्ञा-
-
 
• त्वेन कर्मातिदिशति । स्पृष्टकमिति 'नपुंसके भावे क्तः' । पश्चात् 'संज्ञाया
कन्' । एवमुत्तरत्रापि योज्यम् । अस्याः संमुखागतेन नायकेनापि ।
 
१. 'चतु. षष्टे..' २. 'विचाराच.' : 'एव' इति पुस्तकान्तरे नास्ति.
का० १३