This page has not been fully proofread.

कामसूत्रम् ।
 
७ आदितोऽध्यायः]
 
दशाङ्गमाहुः ॥ इति । पञ्चालसंवन्धाञ्च प्रवर्तिता । पञ्चालेन महर्षिणा
ऋग्वेदे चतुःषष्टिर्निगदिता । बाभ्रव्येणापि पाञ्चालेन स्वकृते सांप्रयो-
गिकेऽधिकरण आलिङ्गनादय उक्ताः । ततश्च द्वयोरप्येकगोत्रेनिमित्तसमा-
ख्येन पाञ्चालेन निगदनात्संबन्धोऽस्ति । पूजार्थेति । उमयोरपि पक्षयो
ऋग्वेदैकदेशवर्तिन्यपि संज्ञा बहुचैरैशिष्टाचारैरालिङ्गनादिषु पूजार्था
प्रवर्तिता । केचिदाहुः – "तत्पूजां च वक्ष्यति— 'विद्वद्भिः पूजितामेतां ।
खलैरपि सुपूजिताम् । पूजितां गणिकासधैर्नन्दिनीं को न पूजयेत् ॥" इति ।
आलिङ्गनचुम्बनेनखच्छेद्यदशनच्छेद्य संवेशनसीत्कृत पुरुषायितौ-
परिष्टकानामष्टानामष्टधा विकल्पभेदादष्टावष्टका चतुःषष्टिरिति वा-
भ्रवीयाः ॥
 
आलिङ्गनेत्यादि । चौत्रव्यस्य शिष्याः पुनरन्वर्थतामाहुः - अष्टधा वि
कल्पभेदादिति । एकैकस्याष्टधा विकल्पमेदादित्यर्थः । ततश्चाष्टौ सन्तो-
ऽष्टगुणा अष्टावष्टकाश्चतुःषष्टिः ।
 

 
विकल्पवर्गाणामष्टानां न्यूनाधिकत्वदर्शनात्महणनविरुतपुरुषो-
पसृतचित्ररतादीनामन्येषामपि वर्गाणामिह प्रवेशनात्प्रायोवादो-
ऽयम् । यथा सप्तपर्णो वृक्षः पञ्चवर्णो वलिरिति वात्स्यायनः ॥
 
विकल्पेति । 'न्यूनाधिकत्वदर्शनादिति । आलिङ्गनादीनां ये विकल्प -
वर्गा वक्ष्यमाणास्तेषां कस्यचिदूनत्वं दृश्यते पुरुषायितस्य, केषांचिदा-
घिक्यमेवालिङ्गनादीनाम् । ततश्च नाष्टावष्टावेव । विकल्पवर्गाणामष्टानां
न्यूनाघिकत्वदर्शनात् । अन्येपामपीति प्रकृतत्वाचुम्बनादीनाम् । तेभ्यो-
ऽन्येषामपि ग्रहणनविरुतपुरुषोपसृप्तचित्ररतादीनामिति संबन्धः । न तु
प्रहणनादिभ्यश्चतुर्भ्योऽन्येषामपीति । तेषामसंभवात् । इहेति अष्टवर्गे
प्रवेशनादेतान्यपि हि संप्रयोगोऽपेक्षते । ततश्च नाष्टावेवाष्टधा । कथं तर्बु-
क्तमित्याह–प्रायोवादोऽयमिति । प्रायिकमेतद्वचनम् । कथमित्याह-
यथेति । पर्णानां न्यूनत्वेऽपि पर्णानां च बहुत्वेऽपि वाहुल्येन क्वचिद्दर्श-
-
 
१. 'अभीष्टाचारे'. २. 'नखदशनच्छेद्य-'. ३. 'सीत्कृतीपरिष्टकानाम्'. ४. 'अष्टा-
नाम्' इति पुस्तकान्तरे नास्ति. ५. 'वाभ्रुवीयस्य'. ६. 'विकारभेदात् ७. 'प्रवेशात्'.