2023-02-19 13:58:59 by ambuda-bot
This page has not been fully proofread.
२ सांप्रयोगिकमधिकरणम् ।
द्वितीयोऽध्यायः ।
एवं रतमवस्थाप्य तदङ्गभूतां चतुःषष्टिं निर्दिदिक्षुराह-
संप्रयोगाङ्गं चतुःषष्टिरित्याचक्षते । चतुःषष्टिप्रकरणत्वात् ॥
संप्रयोगस्य चतुःषष्टयात्मकत्वात्तस्याङ्गं चतुःषष्टिरित्याचक्षते पूर्वा -
चार्यास्तस्मात्तां वक्ष्यामः ।
२ अध्यायः]
९५
तत्र चतुःषष्टिशब्दः शास्त्रे तदेकदेशे वा वर्तते, उभयथापि व्यव-
हाराङ्गमिति देर्शयन्नाह -
शास्त्रमेवेदं चतुःषष्टिरित्याचार्यवादः ॥
शास्त्रमेवेदमितीति शास्त्रमाह तच्च संप्रयोगस्याङ्गम् । तदुपायस्य
तन्त्रावापाख्यस्य प्रकाशनात् । आचार्यवाद इति । शब्दविदो ह्याचार्या
एवंविधा एव किंचिन्निमित्तमाश्रित्य चतुःषष्टिशब्दस प्रवृत्ति वदन्ति ।
तच्चेहाप्यस्तीति शास्त्रैकदेशे वा विद्यासमुद्देशे वर्तत इत्याह-
कलानां चतुःषष्टित्वातासां च संप्रयोगाङ्गभूतत्वात्कलासमूहो
वा चतुःषष्टिरिति । ऋचां दशतयीनां च संज्ञितत्वात् । इहापि
तदर्थसंवन्धात् । पञ्चाळसंवन्धाच्च वढचैरेषा पूजार्थ संज्ञा भवर्तिता
इत्येके ॥
अत्र हि गीतादयः कलाश्चतुःषष्टिरुक्ताः । ततस्तत्समूहो वा संप्रयो-
गाङ्गम् । चतुःषष्टिः सांप्रयोगिके वा शास्त्रैकदेशे वर्तते । तत्र हि पा-
ञ्चालिकी चतुःषष्टिः कथ्यते । कथं ताश्चतुःषष्टिरित्याह—–—दशतयीनां
चेति । दशावयवा मण्डलानि यासामृचाम् । इत्यवयवे तयप् । दशतय्य-
स्ताश्चतुःषष्टिरित संज्ञिताः । इहापीति संप्रयोगाङ्गे । तदर्थसंवन्धादिति
देशावयवमण्डलार्थसंबन्धात् । चतुःषष्टिरिति संज्ञा प्रवर्तत इति संवन्धः ।
संप्रयोगाङ्गं हि दशावयवाः । यथोक्तम् – 'आलिङ्गनं चुम्बनदैन्तकर्म
नखक्षतं सीत्कृतपाणिघातम् । संवेशनं चोर्पसृतौपरिष्टं नरायितं चेति
१. 'सप्रयोगम् . ' २. 'तद्दर्शयन्' ३. 'तच्छात्रमिदम्'. ४. 'ततथ'. ५. 'दशाव-
यवार्थ-'. ६. 'चुम्वनम्'. ७. 'दशनकर्म'. ८. 'सीत्कृतम्'. ९. 'उपटतमीपरिष्टम्'.