This page has not been fully proofread.

९४
 
६ आदितोऽध्यायः]
 
कामसूत्रविद्भिः कथ्यते । तथा
 
कामसूत्रम् ।
 
संप्रत्ययादुत्पन्नस्वभावत्वात्संप्रत्ययात्मिका
च 'प्रियसादृश्यं गमनकारणम्' इति वक्ष्यति ।
 
प्रत्यक्षा लोकतः सिद्धा या प्रीतिर्विषयात्मिका ।
प्रधानफलवन्त्वात्सा तदर्थाचेतरा अपि ॥
शब्दादिविषयाननुकूलानालम्ब्य
 
श्रोत्रादिद्वारेण या प्रीतिरुत्पद्यते
 
सा विषयव्यवसायानुगतत्वात्प्रत्यक्षां सती लोकत एव सिद्धत्वान्नात्र
लक्षणामिनिवेशः । सा चैवंविधा नैमित्तिकनागरवृत्ते द्रष्टव्या । प्रधानफ-
लवत्त्वात्सेति साक्षाद्विषयोपभोगफलेन युक्तत्वादित्यर्थः । इतरा अपि
तिरुस्तदर्थाश्चेति । विषयप्रीत्यर्था एव । तदङ्गत्वात् । चशब्द एवकारार्थः ।
प्रीतीरेताः परामृश्य शास्त्रतः शास्त्रलक्षणाः ।
यो यथा वर्तते भावस्तं तथैव प्रयोजयेत् ॥
 
इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे प्रमाण-
कालभावेभ्यो रतावस्थापनं प्रीतिविशेषा इति प्रथमोऽध्यायः ।
आदितः षष्ठः ।
 
चतस्रः शास्त्रतः परामृश्य निरूप्य । शास्त्रलक्षणा इति तेपु तेषु
स्थानेषु शास्त्रेणानेन लक्ष्यमाणत्वात् । यो यथा वर्तते भाव इति कर्मा-
भ्यासादीनां चतुर्णी प्रकाराणां येन प्रकारेण योऽभिप्रायो वर्तते स तेनैव
प्रकारेण वर्तयेत् । तज्जन्यप्रीत्यर्थमेव । तथा हि-अतथाप्रवर्तनादनी-
प्सिता प्रीतिरप्रीतिरेव स्यात् । इति प्रीतिविशेषाः सप्तमं प्रकरणम् ।
आदितः पष्ठ इति प्रथमाध्यायात्प्रभृति षष्ठोऽयमित्यर्थः । एवमुत्तरत्रापि
योज्यम् ।
 
इति श्रीवात्स्यायनीयकामसूत्रटीकार्या जयमङ्गलाभिधानायां विदग्धाहनाविरहकातरेण
गुरुदत्तेन्द्रपादाभिधानेन यशोघरेणैकत्रकृतसूत्रभाष्यायां सांप्रयोगिके द्वितीयेऽधि-
करणे प्रेमाणकालभावेभ्यो रतावस्थापन प्रीतिविशेपाः प्रथमोऽध्यायः ।
 
१. 'स्यात्'. २. 'वृत्तेः'; 'वृत्तेपु'. ३. 'एताः प्रीती:'. ४. 'वर्धते'. ५. 'प्र-
माण-' इत्यादि पुस्तकान्तरे नास्ति.