This page has not been fully proofread.

१ अध्यायः]
 
२ सांप्रयोगिकमधिकरणम् ।
 
इति पुरुषस्य भावकालान्तरसंक्रान्तिः । योषितः पुनरेतदेव विपरीत-
मिति । अत्रापि प्रकृतिस्थायाः प्रथमरते स्वभेदापेक्षया चिरवेगता मन्द-
वेगता च द्रष्टव्या । तस्या अष्टगुणो हि रागो निसर्गादेव प्रथमरतेन सं-
धुक्षते । ततब्ध तदानीं मन्दायमानश्चिरेण प्रशाम्यति । तद्यथा- चिर-
चण्डवेगायाः प्रकृतिस्थायाश्चिरतरवेगता मध्यवेगता च कालभावाभ्याम्,
मध्य [मध्य] वेगायाश्विरवेगता मन्दवेगता च शीघ्रमन्दवेगाया मध्य-
वेगता मन्दतरवेगता च, इत्येवं शेषास्वपि षट्सु योज्यम् । तद्विपरितमु-
तरेषु द्वितीये रते प्रकृतिस्थतैव संक्रान्तिः । ततः शनैः शनैः संधुक्षणा-
त्प्रवर्धमानरागवेगयोः स्वमेदापेक्षया तृतीयादिरतेषु शीघ्रतरतमवेगताद-
यश्चण्डतरतमवेगतादयश्च धर्माः । यावच्छुक्रधातुक्षयः । इति स्त्रीपुंस-
योस्तुल्ये धातुक्षये विशेषः । यत्पुरुषस्य धातोरेकगुणत्वायोपितब्ध पश्चा-
दष्टगुणत्वार्त्तदाह ––प्राक्वेति । प्रायोवाद इति न पुंभिर्वामलोचना तृप्य-
तीति । प्रमाणान्तरं संक्रान्ति च योषितो जघनप्रेसारणाद्वाहंसाभ्यां पुरु-
षस्य च वृद्धिविधिना वक्ष्यति ।
 
शीघ्रमध्यचिरवेगा नायिका इँत्युक्तम् । काः पुनस्ता इत्याह -
मृदुत्वादुपसृद्यत्वान्निसर्गाच्चैव योपितः ।
 
प्रानुवन्त्याशु ताः प्रीतिमित्याचार्या व्यवस्थिताः ॥
निसर्गात्स्वभावतो याः स्त्रियो मृद्रङ्गयः, अमृद्वङ्गयोऽपि याथुम्व-
नादिभिर्वाषैरान्तरैश्चाङ्गुलिकर्मादिभिरुपमृद्यन्ते ताः शीघ्रतरं प्रीति प्रा-
सुवन्ति । ताः शीघ्रवेगा इत्यर्थः । तद्विपर्यये ता मध्यचिरवेगा इत्यर्थ
इत्युक्तम् । तथा पुरुषोऽपीति तत्र मृदुत्वं स्वाभाविकं लक्षणम् । शेषं
कृत्रिमम् । इत्याचार्या व्यवस्थिता इति सर्वेषामेतदेव मतम् । अव्यभि-
चारित्वात् ।
 
१. 'तुल्यधातु-'. २. 'यदाह - प्रागवोचदिति'. ३. 'तृप्यत इति'. ४. प्रमाणा-
न्तरसंक्रान्तिम्'. ५. 'प्रसारणा च हृासाभ्याम्'. ६. 'मन्द - '. ७. 'इत्युकं
प्राक्'. ८. 'पुनरित्याह' ९. 'ताः' इति पुस्तकान्तरे नास्ति. १०, 'इत्युक्तम्'
इति पुस्तकान्तरे नास्ति.