2023-02-19 13:58:59 by ambuda-bot
This page has not been fully proofread.
९०
कामसूत्रम् ।
६ आदितोऽध्यायः]
र्बलीयः सर्वतः परे ॥
वलीयान्वेग इत्यन्ये यस्मादश्वोऽप्यवेगवान् । नैव
साधयितुं शक्तो वेगः कालप्रकर्षणः ॥ एवं तु नैव खिद्येत मन्दवेगापि
नायिका । यथाविषयमेतासां तस्माज्ज्ञेयं बलाबलम् ॥ हीनो भावप्रमा-
णाभ्यां वेगवान्काळवर्जितः । कालप्रमाणहीनश्च तत्र शेषेण साध-
येत् ॥" इति ।
तत्र स्वभावतो यो यस्य भावः कालब्ध स भावान्तरं कालान्तरं च
यदा प्रतिपद्यते तदा भावकालान्तरसंक्रान्तिः । तां दर्शयितुमाह -
प्रथमरते चण्डवेगता शीघ्रकालता च पुरुषस्य, तद्विपरीतमुत्त
रेषु । योषितः पुनरेतदेव विपरीतम् । आ धातुक्षयात् । प्राक्च
स्त्रीधातुक्षयात्पुरुषधातुक्षय इति प्रायोवादः ॥
I
शीघ्रमध्यचिरवेगाणां मन्दमध्यचण्डवेगानामन्यतमस्य प्रकृतिस्थस्य
प्रथमरते खमेदापेक्षया शीघ्रवेगता चण्डवेगता च द्रष्टव्या । तदानीं प्र-
वृद्धत्वाद्रागश्चण्डायमानो द्रुतं प्रशाम्यति । तद्यथा- चिरचण्डवेगस्य
प्रथमरते मध्यवेगता चण्डतरवेगता च कालभावाभ्याम्, मध्य [मध्य] वेगस्य
शीघ्रवेगता चण्डवेगता च, शीघ्रमन्दवेगस्य शीघ्रतरवेगता मध्यवेगता च,
शीघ्रमध्यवेगस्य शीघ्रतरवेगता चण्डवेगता च, शीघ्रचण्डवेगस्य शीघ्र-
तरवेगता चण्डतरवेगता च, मध्यमन्दवेगस्य शीघ्रवेगता मध्यवेगता च
मध्यचण्डवेगस्य शीघ्रवेगता चण्डतरवेगता च, चिरमन्दवेगस्य कालभा-
वाभ्यां [मध्यवेगता] मध्यवेगता च, चिरमध्यवेगस्य मध्यवेगता चण्डवे-
गता च, इति नव प्रथमरते संक्रान्तिरतानि । तद्विपरीतमुत्तरेंग्विति प्रथ-
मरते यदुक्तं तस्य विपरीतं द्वितीयादिपु रतेम्वित्यर्थः । तत्र कामस्यैक-
गुणत्वात्पुरुषस्य प्रशान्तरागत्वाद्वितीये रते प्रकृतिस्थैव भावकालान्तर -
संक्रान्तिः । ततः शनैः शनैर्हीयमानरागत्वात्तृतीयादिपु स्वभेदापेक्षया
चिरतरतमवेगतादयो मैंन्दतरतमवेगतादयश्च धर्माः । यावच्छुक्रधातुक्षयः ।
-
१. 'अपरे'. २. 'मिद्येत'. ३. 'हेय'. ४. 'वेग' कालविवर्जितः'. ५. 'कालतः'.
६. 'चिरचिरतर-'. ७. 'मन्दमन्दतर - '.