This page has not been fully proofread.

I
 
१ अध्यायः]
 
२ सांप्रयोगिकमधिकरणम् ।
 
स्व.
 
तत्र समं विषमं च संकीर्णकम् । तद्यथा – शशस्य मन्दशीघ्रवेगस्य
मूग्या तथाविषया, शशस्य मध्यमध्यवेगस्य मृग्या तथाविधया, शशस्य
चण्डचिरवेगस्य मृग्या तथाविधया, शशस्य मन्दमध्यवेगस्य मृग्या तथावि-
घया, शशस्य मन्दचिरवेगस्य मृग्या तथाविधया, शशस्य मध्यशीघ्रवे-
गस्य मृग्या तथाविषया, शशस्य मध्यचिरवेगस्य मृग्या तथाविधया, श-
शस्य चण्डशीघ्रवेगस्य मृग्या तथाविषया, शशस्य चण्डचिरवेगस्य मृग्या
तथाविषया, इति सदृशसंप्रयोगे समानि नव संकीर्णरतानि । एषामेव नवानां
शशानामेकैकस्य सदृशीं मृगीमेकां त्यक्त्वा शेषाभिरतथाविधाभिरष्टभि-
योगे द्वासप्ततिरिति विषमाणि संकीर्णरतानि । यथा शशस्य नवप्रकारतया
तथाविधया वडवया विषमाणि नव संकीर्णरतानि । अतथाविधाभिरष्टमि-
योगे द्वासप्ततिरिति विषमाण्येव । एवं हस्तिन्या तावन्त्येव विषमाण्यतिवि-
षमाणि चेति संक्षेपेण शशस्य त्रिचत्वारिंशशतद्वयम् (२४३) । तावदेव
वृषस्याश्वस्य च । समुदायेन चैकोनत्रिंशानि सप्तशतानि ( ७२९) ।
 
तेषु तर्कादुपचारान्प्रयोजयेदिति वात्स्यायनः ॥
 
८९
 
संकीर्णरतेषु बुद्धया परिच्छिन्नेषु तर्कादुपचारान्प्रयोजयेत् । यथाप्र-
माणकालभावजेषु ये यथायथमालिङ्गनादय उपचारास्तान्रहयित्वा संकी-
र्णानेव योजयेत् । येथा तत्समरतमेव प्रायत्निकं स्यादित्यर्थः । अत्र बा-
अवीयाः श्लोकाः— 'पौरुषं मेहनं यत्र मेहने परिघृष्यते । भावकालौ
समानौ च तद्रतं श्रेष्ठमुच्यते ॥ भिद्यते मेहनं यत्र घृप्यते च न सर्वशः ।
विषमौ कालमावौ च कनिष्ठं तदुदाहृतम् ॥ सुरतं सर्वसाम्ये स्याद्वैपम्ये
रतं स्मृतम् । मध्यमानि तु सर्वाणि तेषु चाहुर्बलावलम् ॥ बलीयान्सर्वतः
कालः कालेऽपि हि शशोऽपि सन् । संस्पृशत्येव सर्वत्र हस्तिनीमेहनो-
दरम् ॥ एवं वीजी च कथ्येत मृगीकालप्रकर्षणः । तस्मात्प्रमाणमेवाहु-
तु
 
१. 'शेषाभिस्तथाविधाभिः'. २. ' तथा तु सम-' ३. 'भेद्यते'; 'मृद्यते'.
४. 'दूरत.; 'दूरत'. ५. 'बाहुबलाइलम्'; 'बाहुवलावलम्'.
६. 'वाजीव
कथ्येत'. ७. 'प्रकर्षिणः'.
 
का० १२