This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
-
 
.)
 
'राजपुत्र, या तदा तस्यामतिदारुणायां हत-
निशायामेभिरतिनृशंसैरसुभिर्न परित्यक्ता, ते मामिदानीं परित्यज-
न्तीति दूरापेतम् । नूनमपुण्योपहतायाः पापाया मम भगवानन्तकोऽपि
परिहरति दर्शनम्। कुतश्च मे कठिन हृदयायाः शोकः । सर्वमिद -
मलीकमस्य दुरात्मनः शठहृदयस्य । सर्वथाहमनेन व्यक्तत्रपेण निर-
पत्रपाणामप्रेसरी कृता । यया वज्रमय्यवेदमनुभूतम् तस्याः का
गणना कथनं प्रति । किंवा परमतः कष्टतरमाख्येयमन्यद्भविष्यति,
यन्न शक्यते श्रोतुमाख्यातुं वा । केवलमस्य वज्रपातस्यानन्तरमाश्चर्य
यदभूत् तदावेदयामि। आत्मनश्च प्राणधारणकारणलव इवाव्यक्ती य:
समुत्पन्नः, तं च कथयामि । यया दुराशामृगतृष्णिकया गृहीताह-
मिदमुपरतकल्पं परकीय मित्र भारभूतमप्रयोजनमकृतज्ञं च हतशरीरं
वहामि, तदलं श्रूयताम् । ततश्च तथाभूते तस्मिन्नवस्थान्तरे, मरण-
कनिश्चया तत्तद्वहु विलप्य तरलिकामब्रवम् अयि उत्तिष्ट निष्ठु-
रहृदये, कियद्रोदिषि। काष्टान्यादृत्य विरचय चिताम् । अनुसरामि
जीवितेश्वरम्' इति ।
 
९२
 
वेदमवादीत्
 
ww
 
अत्रान्तर, झटिति, चन्द्रमण्डल विनिर्गतो गगनादवतीर्य, धव-
लढुकूलपलबकल्पितोष्णीषग्रन्थिः, कुमुदधवलदेहः, महाप्रमाण: पुरुषो
महापुरुषलक्षणोपेतो दिव्याकृति:, बाहुभ्यां मृणालघवलाङ्गुलिभ्याम-
तिशीतलस्पर्शाभ्यां तमुपरतमुत्क्षिपन्, दुन्दुभिनादगम्भीरेण स्वरेण
'वत्से महाश्वेते, न परित्याज्यास्त्वया प्राणाः । पुनरपि तवानेन सह
भविष्यति समागमः' इत्येवमादृत: पितेवाभिधाय, सहैवानेन । गगन-
- तलमुदपतत् । अहं तु तेन व्यतिकरेण सभया सविस्मया सकौतुका