2023-02-19 13:23:27 by ambuda-bot
This page has not been fully proofread.
कादम्बरीसंग्रहः ।
M
ग्रहजननि रजनि, किमर्थं नानुकम्पसे । तात कैलास, शरणा-
गतास्मि ते । दर्शय दयालुताम्' इत्येतानि चान्यानि च व्याक्रो-
शन्ती, कियद्वा स्मरामि, ग्रहगृहीतेवोन्मत्तेव व्यलपम् ।
उपर्युपरिपतितनयन जलधारानिकरच्छलेन विलीयमानेव, तज्जी-
त्रितायेत्रात्ममरणाय स्पृहयन्ती, करतलेन कपोलयोर्ललाटे अंसयोर्हृदये
च परामृशन्ती, 'पुण्डरीक, निष्ठुरोऽसि । एवमध्यात न गणयसि
माम्' इत्युपालभमाना, मुहुर्मुहुरेनमन्वनयम् । मुहुर्मुहुः कण्ठे गृहीत्वा
व्याक्रोशम्। 'अयि भगवन् प्रसीद, प्रत्युज्जीवयैनम्' इति मुहुर्मुहुः
कपिञ्जलस्य पादयोरपतम्। मुहुर्मुहुश्च तरटिकां कण्ठे गृहीत्वा प्रारू-
दम्' इत्येवमात्मवृत्तान्तमावेदयन्त्या एव तस्याः समतिक्रान्तं कथ-
मप्यतिकष्टमवस्थान्तरमनुभवन्त्या इव चेतनां जहार मूर्छा । वेगान्नि-
पतन्तीं च शिलातले तां ससंभ्रमं प्रसारितकर परिजन इव जात-
पीडश्चन्द्रापीडो विधृतवान् । अश्रुजलार्द्रेण च तदीयेनैवोत्तरीयवल्कल-
प्रान्तेन शनै: शनैत्रजयन्, संज्ञां ग्राहितवान् । उपजातकारुण्यश्च
बाष्पसलिलोत्पीड़ैन प्रक्षाल्यमानकपोलयुगला लब्धचेतनामात्
'भगवति, मया पापेन तवायं पुनरभिनवतामुपनीत: शोकः, येनेदृशीं
दशामुपनीतासि । तदलमनया कथया । संद्रियतामियम् । अहमध्य-
समर्थः श्रोतुम् । अतिक्रान्तान्यपि हि संकीर्त्यमानानि प्रियजनविश्वास-
वचनान्यनुभवसमां वेदनामुपजनयन्ति सुहृज्जनस्य दुःखानि । तन्ना-
हेसि कथंकथमपि विघृतानिमानसुलभानसून्पुनः पुनः स्मरणशोकानले-
न्धनतामुपनेतुम्' इति ।
wt
एवमुक्ता दीर्घमुष्णं च निश्वस्य, बाष्पायमाणलोचना सनि--
4