This page has not been fully proofread.

९०
 
कादम्बरीसंग्रहः ।
 
युगसहस्राय
दर्शय भक्त-
-
 
चेतना दुःखभागिनी, वनाविव पतितमसहाशोकदह्यमानमात्मानमवनौ
त्रिचेष्टमानमपश्यम् । अश्रद्दधाना चासंभावनीयं तत्तस्य मरणम् आत्म-
नश्च जीवितम्, उत्थाय 'हा हा किमिदमुपनतम्' इति मुक्तार्तनादा..
'हा अम्ब, हा तात, हा सख्यः, इति व्याहरन्ती, 'हा नाथ जीवि-
तनिबन्धन, आचक्ष्व –क्व मामेकाकिनीमशरणामकरुण, विमुच्य
यासि । पृच्छ तरलिकां त्वत्कृते मया यानुभूतावस्था ।
माणः कृच्छ्रेण नीतो दिवस: । प्रसीद । सकृदप्यालप ।
वत्सलताम् । ईषदपि विलोकय । पूरय मे मनोरथम् । आर्तास्मि ।
भक्तास्मि । अनुरक्तास्मि । अनाथास्मि । बालास्मि । अगतिकास्मि ।
दुःखितास्मि । अनन्यशरणास्मि । मदनपरिभूतास्मि । किमिति न करोषि
दयाम् । कथय, किमपराद्धम् । किं वा नानुष्टितं मया । कस्यां वा
नाज्ञायामादृतम् । कस्मिन्वा त्वदनुकूले नाभिरतम् । येन कुपितो
दासजनमकारणात्परित्यज्य वजन्न विभेषि कौलीनात् । अलीकानुरागप्र-
तारणकुशलया किं वा मया वामया पापया, याहमद्यापि प्राणिमि । हा,
हतास्मि मन्दभागिनी । कथं न त्वं जातः, न विनयः, न बन्धुवर्ग:,.
न परलोकः । विङ्मां दुष्कृतकारिणीम्, यस्याः कृते तवेयमीदृशी
दशा वर्तते । नास्ति मत्सदृशी नृशंसहृदया, याहमेवंविधं भवन्तमु
त्सृज्य गृहं गतवती । कि मे गृहेण, किमम्बया, किं वा तातेन,
किं बन्धुभिः, कि परिजनेन । हा, कमुपयामि शरणम् । अयि दैव,
दर्शय दयाम् । विज्ञापयामि त्वाम् । देहि दयितदक्षिणाम् । भगवति
भवितव्यते, कुरु कृपाम् । पाहि वनितामनाथाम् । भगवत्यो वनदे-
वताः, प्रसीदत, प्रयच्छतास्य प्राणान् । अत्र वसुंधरे । सकललोकानु-