This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
८९
 
,
 
विषमभूमिभागविन्यस्तैः पादप्रक्षेपै: प्रस्खलन्ती पदे पदे, केनाप्यु-
त्क्षिप्य नीयमानेत्र तं प्रदेशं गत्वा, सरस्तीरसमीपवर्तिनि शशिमणि-
शिलातले विरचितं मृणालमयं शयनमधिशयानम्, अतिनिस्पन्दतया
मत्पदशब्द मित्राकर्णयन्तम् मनः क्षोभप्रायश्चित्तप्राणायामावस्थितमिव,
'मत्तः प्रियतरस्तवापरो जनो जात : ' इति कुपितेनेव जीवितन परि-
व्यक्तम्, 'कठिनहृदये, दर्शनमात्रकेणापि न पुनरनुगृहीतोऽयमनु-
गतो जनः' इति सप्रणयं मामुपालभमानमिव चक्षुषा, किंचिद्विवृ-
ताधरतया जीवितमपहर्तुमन्तः प्रविष्टैरिवेन्दुकिरणैर्निर्गच्छद्भिर्दशनांशुभि-
र्धवलितपुरोभागम् मन्मथव्यथाविघटमानहृदयनिहितेनामेन
 
-
 
$
 
पाणिना 'प्रसीद, प्राणै: समं प्राणसमे, न गन्तव्यम्' इति हृदय-
स्थितां मामित्र वारयन्तम्, अन्तिकस्थितेन चाचिरोद्गतजीवितमार्ग-
मिवोद्गीण विलोकयता तपः सुहृदा कमण्डलुना समुपेतम्, कपिअलेन
मद्दर्शनात् 'अब्रह्मण्यम्' ईत्यूर्ध्वहस्तेन द्विगुणीभूतबाष्पोद्गमेनाक्रोशता
कण्ठे परिष्वक्कम, तत्क्षणविगतजीवितं तमहं पापकारिणी मन्दभाग्या
महाभागमद्राक्षम् ।
 
उद्भूतमूर्छान्धकारा च पातालतलमिवावतीर्णा, तदा 'क्वाहमग-
मम्, किमकरवम् किं व्यलपम्, इति सर्वमेव नाज्ञासिषम् । अस-
वश्च मे तस्मिन्क्षणे किमतिकठिनतयास्य मूढहृदयस्य, किमनेकदु:-
ग्वसहस्रसहिष्णुतया हतशरीरकस्य, कि विहिततया दीर्घशोकस्य, किं
भाजनतया जन्मान्तरोपात्तस्य दुष्कृतस्य, कि दुःखदाननिपुणतया
दग्धदैवस्य, किमेकान्तवामतया दुरात्मनो मन्मथहतकस्य, केन
हेतुना, नोद्गच्छन्ति स्म; तदपि न ज्ञातवती । केवलमतिचिरालुब्ध-
-