2023-02-19 13:23:27 by ambuda-bot
This page has not been fully proofread.
कादम्बरीसंग्रहः ।
च मां सा कृतपादप्रणामा बद्धाञ्जलिरवादीत् - भर्तृदारिके, कि लज्जया
गुरुजनापेक्षया वा । प्रसीद । प्रेषय माम् । आनयामि ते हृदयद-
यितं जनम् । उत्तिष्ठ, स्वयं वा तत्र गम्यताम्' इत्येवंवादिनीं ताम्
'उत्तिष्ठ, यथाकथंचिदनुद्गतजीविता संभावयामि हृदयदयितं जनम्
इत्यभिदधाना, कथंचिदवलम्ब्य तामेवोदतिष्ठम् । उच्चलितायाश्च मे
दुर्निमित्त निवेदकमस्पन्दत दक्षिणं लोचनम् । उपजातशङ्का चाचि-
न्तयम् -- 'इदमपरं किमप्युपक्षिप्तं देवेन' इति ।
ww
अथ नातिदूरोद्गतेन चन्दनरस
निर्झरनिकरानिव क्षरता अमृ
तसागरपूरानिवोद्गिरता चन्द्रमण्डलेन प्लाव्यमाने ज्योत्स्नया भुवना-
न्तराले, महावराहदंष्ट्रामण्डल निभेन शशिना क्षीरसागरोदरादिवोद्धि-
यमाणं महीमण्डले, चन्द्रोदयानन्दनिर्भरे विलासमय इव प्रीति-
मय इव जीवलोके, प्रदोषसमये, गृहीतविविधकुसुमताम्बूलाङ्गरागपट-
वासचूर्णया तरलिकयानुगम्यमाना, रक्तांशुकेन कृतशिरोबगुण्ठना,
केनचिदात्मीयेनापि परिजनेनानुपलक्ष्यमाणा, तस्मात्प्रासाद शिखरा-
-
दवातरम् ।
अवतीर्य च प्रमदवनपक्षद्वारेण निर्गय तत्कालोचितैरालामै-
स्तया सह तमुद्देशमभ्युपागमम् । तत्र च मार्गलताकुसुमरजोधूसर
चरणयुगलं कैलासतटाकन्द्रोदयप्रस्स्रुतचन्द्रकान्तमणिप्रस्रवणे प्रक्षाल-
यन्ती, यस्मिन्प्रदेशे स आस्ते, तस्मिन्नेव चास्य सरसः पश्चिमे तटे,
पुरुषस्येव रुदितध्वनि विप्रकर्षान्नातिव्यक्तमुपालक्षयम् । दक्षिणे-
क्षणस्फुरणेन च प्रथममेव मनस्याहितशङ्का, तेन सुतरामवदीर्णहृद-
येव, किमप्यनिष्टमन्तः कथयतेव विषण्णेनान्तरात्मना 'तरलिके,