This page has not been fully proofread.

८६
 
कादम्बरीसंग्रहः ।
 
>
 
उपदिशतु मे भवती, यदत्र साम्प्रतम् । अयमेवं त्वत्समक्षमेत्रा-
भिधाय गतः कपिञ्जल: । यदि तावदितरकन्यकेव विहाय लज्जाम्,
उत्सृज्य धैर्यम् अवमुच्य विनयम् अचिन्तयित्वा जनापवादम्,
अतिक्रम्य सदाचारम्, उल्लङ्घ्य शीलम्, अवगणय्य कुलम्, अङ्गी-
कृत्यायश:, रागान्धवृत्ति:, अननुज्ञाता पित्रा, अननुमोदिता मात्रा.
स्वयमुपगम्य ग्राह्यामि पाणिम् । एवं गुरुजनातिक्रमाद वर्मो महान् ।
अथ धर्मानुरोधादितरपक्षावलम्बनद्वारेण मृत्युमङ्गीकरोमि एवमपि
प्रथमं तावत्
 
स्वयमागतस्य प्रथमप्रणयिनस्तत्रभवतः कपिञ्जलस्य
प्रणयप्रसरभङ्ग: । पुनरपरम्- यदि कदाचित्तस्य जनस्य मत्कृतादाशा-
भङ्गात्प्राणविपत्तिरुपजायते तदपि मुनिजनववजनितं महदेनो भवेत् '
इत्येवमुच्चारयन्त्यामेव मयि, आसन्नचन्द्रोदयजन्मना विरलविरलेनालो-
केन धूसरतां वासवीदिगयासीत् ।
 
ततः शशिकेसरिकरविदार्यमाणतम करिकुम्भसंभवेन मुक्ताफल-
क्षोदेनेव धवलतामुपनीयमानं पश्चिमेतरदिन्दुधाम्ना दिगन्तरमदृश्यत ।
शनैः शनैश्चन्द्रदर्शनान्मन्दमन्दस्मिताया दशनप्रभेव ज्योत्स्ना निष्प-
तन्ती निशाया मुखशोभामकरोत् । तदनु रसातलादवनीमवदार्यो-
द्भच्छता शेषफणामण्डलेनेव रजनिकरबिम्बेनाराजत रजनी ।
 
>
 
.
 
अथ तं प्रत्यासन्नसमुद्र विद्रुमप्रभापाटलितमिवाभिनवोदयराग-
लोहितं रजनिकरमुदितं विलोकयन्तीम्, अन्धकारितहृदयाम्, तरलि -
कोत्सङ्गविधृतशरीराम्, मूर्च्छा मां निमीलितलोचनामकार्षीत् । अचि
रेण च संभ्रान्ततरलिकोपनीताभिश्चन्दनचर्चाभिस्तालवृन्तानिलैश्चोपट-
ब्धसंज्ञा, तामेवाकुलाकुलां रुदतीं तरलिकामपश्यम् । उन्मीलितलोचनां
 
-