This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
लज्जया किंचिदवनम्यमानवदनत्वादस्पृष्टकपोलोदरैरानन्दबाष्पजलवि-
न्दुभिः स्रवद्भिरावेद्यमानप्रहर्षप्रसङ्गा तत्क्षणमचिन्तयम् - 'दिष्ट्या
तावदयमनङ्गो मामिव तमप्यनुबध्नाति । यत्सत्यमेतेन मे संताप-
यताप्यंशेन दर्शितानुकूलता । यदि च सत्यमेव तस्येहशी दशा
वर्तते, ततः किमिव नोपकृतमनेन । किं वा नोपपादितम् । को वाने-
नापर: समानो बन्धुः । कथं वा कपिञ्जलस्य स्वप्नेऽपि वितथा भारती
प्रशान्ताकृतेरस्माद्वदनान्निष्कामति । इत्थंभूते कि मयापि प्रतिपत्त-
व्यम् । तस्य वा पुर: किमभिधातव्यम्' इत्येवं विचारयन्तीमेव
प्रविश्य ससंभ्रमा प्रतीहारी मामकथयत् 'भर्तृदारिके, त्वमस्वस्थ-
शरीरेति परिजनादुपलभ्य महादेवी प्राप्ता' इति । तच्च श्रुत्वा
कपिञ्जलो महाजनसंमर्दभीरु: सत्वरमुत्थाय, 'राजपुत्रि, महानयमुप-
स्थित: कालातिपात: । भगवांश्च भुवनत्रयचूडामणिरस्तमुपगच्छति
दिवसकर: । तद्गच्छामि । सर्वधाभिमतसुहृत्प्राणरक्षादक्षिणार्थमयमु-
परचितोऽञ्जलिः । एष मे परमो विभवः' इत्यभिधाय, प्रतिवचनकाल-
मप्रतीक्ष्यैव, पुरोयायिनाम्बाया: परिजनेन सर्वतः संरुद्धे द्वारदेशे कथ-
मध्यवाप्त निर्गमः प्रययौ । अम्बा तु मत्समीपमागत्य सुचिरं स्थित्वा
स्वभवनमयासीत् । तथा तु तत्रागत्य किं कृतम्, किमभिहितम्,
किमाचेष्टितम्, इति शून्यहृदया सर्वे नालक्षयम् ।
 
गतायां च तस्याम्, अस्तमुपगते भगवति सवितरि, तिमिरे-
णावष्टभ्यमाने जीवलोके, किंकर्तव्यतामूढा तामेव तरलिकामपृच्छम्-
"अयि तरलिके, कथं न पश्यसि दृढमाकुलं मे हृदयम् । अप्रतिपत्ति-
विलानि चेन्द्रियाणि । न स्वयमण्वपि कर्तव्यमलमस्मि ज्ञातुम् ।
 
८५
 
M