This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 

 
मनुभवितुम्' इति । एतदाकर्ण्य देव: प्रमाणम्" इत्युक्त्वा विरराम ।
उपजातकुतूहलस्तु राजा समीपवर्तिनां राज्ञामालोक्य मुखानि 'को
दोष: । प्रत्रेश्यताम्' इत्यादिदेश ।
 
अथ प्रतीहारी नरपतिवचनानन्तरमुत्थाय ता मातङ्गकुमारी
प्रावेशयत् । प्रविश्य च सा नरपतिसहस्त्रमध्यवर्तिनम्, अवलम्बितस्थूल-
मुक्ताकलापस्य कनक श्रृङ्खलानियमितमणिदण्डिकाचतुष्टयस्य गगनसि-
न्धुफेनपटलपाण्डुरस्य नातिमहतो दुकूलवितानस्याधस्तादिन्दुकान्तम- 3
[णिपर्यकका निषण्णम्, उद्भूयमानकनकदण्डचामरकलापम्, अमृतफे-
नधवले गोरोचनालिखितहसमिथुनसनाथपर्यन्ते चारुचामर पवनप्रनर्ति - '
नदशे ढुकूले वसानम्, आतसुरभिचन्दनानुलेपन धवलितोर. स्थलम्,
उपरिविन्यस्त कुङ्कुम स्थासकम्, अमलफलपातमष्टमीचन्द्रशक---
लाकारमूर्णासनाचं ललाटदेशमुद्वहन्तम्, अपरिमितपरिवारजनमप्यद्वि-
नीयम्, अविरतप्रवृत्तदानमप्यमदम्, राजानमद्राक्षीत् ।
 
आलोक्य च सा दूरस्थितैव वेणुलतामादाय नरपतिप्रबोध-
नार्थमस्कृत्सभाकुडिममाजघान; येन सफलमेव तद्राजकमेकपदं तेन
वेणुलताध्वनिना युगपदावलितवदनमवनिपालमुखादाकृष्य चक्षुस्तद-
भिमुखमासीत् ।
 
अत्र निपतिस्तु दूरात् 'आलोकय' इत्यभिधाय प्रतीहार्या निर्दिश्य-
माना ताम् अनवरतकृतव्यायामतया योवनापगमेऽप्यशिथिलशरीरसं-
घिना पुरुषेणाधिष्ठितपुरोभागाम्, आकुलाकुलफाफपक्षधारिणा कनक-
शलाफा निर्मितं पञ्जरमुहता चाण्डालदारफेशानुगम्यमानाम्, आगुल्फा-
वलम्बिना नीलफनुफेनाच्छन्नशरीराम्, उपरि रक्ताशुफरचितावगुण्ठ-
mape
 
#