This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
यावत्प्राणिमि, तावदस्य मदनसंतापस्य प्रतिक्रियां क्रियमाणामिच्छामि।
पच्यन्त इत्र मेऽङ्गानि । उत्काथ्यत इव हृदयम् । प्लुष्यत इव दृष्टि: ।
ज्वलतीव शरीरम् । अत्र यत्प्राप्तकालम्, तत्करोतु भवान्' इत्यभिधाय
तूष्णीमभवत् ।
 
एवमुक्तोऽप्यहमेनं प्राबोधयं पुनः पुनः । यदा शास्त्रोपदेश -
विशदै: सनिदर्शनै: सेतिहासैश्च वचोभिः सानुनयं सोपग्रहं चाभि-
धीयमानोऽपि नाकरोत्कर्णे, तदाहमचिन्तयम् - 'अतिभूमिमयं गतो
-
न शक्यते निवर्तयितुम् । इदानीं निरर्थकाः खलुपदेशाः । तत्प्राण-
परिरक्षणऽपि तांबदस्य यत्नमाचरामि' इति कृतमते: मुहुर्मुहुरन्यदन्य-
न्नलिनदलशयनमुपकल्पयतः, मुहुर्मुहुचन्दनचर्चामारचयतः, मुहुर्मुहुश्च
स्वेदप्रतिक्रियां कुर्बत:, कदलीदलेनानवरतं वीजयतः, समुदभून्मे मनसि
चिन्ता - 'नास्ति खल्बसाध्यं नाम भगवतो मनोभुव: । क्वायं हरिण
इव वनवासनिरतः स्वभावमुग्धो जनः । क्व च विविधविलासरसरा-
शिर्गन्धर्वराजपुत्री महाश्वेता । सर्वथा न हि किंचिदस्य दुर्घटं दुष्कर-
मनायत्तम कर्तव्यं वा जगति । दुरुपपादेव यथेष्वयमवज्ञया विचरति ।
नायं केनापि प्रतिकूलयितुं शक्यते । का वा गणना सचेतनेषु ।
अपगतचेतनान्यपि संघटयितुमलम् । यद्यस्मै रोचते, कुमुदिन्यपि दिन-
करकरानुरागिणी भवति । कमलिन्यपि शशिकरद्वेषमुज्झति । निशापि
वासरेण सह मिश्रतामेति । ज्योत्स्नाप्यन्धकारमनुवर्तते । किं वा
तस्य दुःसाधमपरम् । एवंविधो येनायमगाधगाम्भीर्यसागरस्तृणवलघुता-
मुपनीत: । क्व तत्तपः । क्वेयमवस्था । सर्वथा निष्प्रतीकारेयमाप-
दुपस्थिता । किमिदानीं कर्तव्यम् । किंवा चेष्टितव्यम् । कां
 
i
 
-
 
८३