2023-02-19 13:23:26 by ambuda-bot
This page has not been fully proofread.
८२
कादम्बरीसंग्रहः ।
बुध्यसे । मूढो हि मदनेनायास्यते । का वा सुखाशा साधुजननिन्दि-
तेष्वेवंविधेषु प्राकृतजनबहुमतेषु भवतः । स खलु धर्मबुद्धया विषलता-
वनं सिञ्चति, कुवलयमालेति निस्त्रिंशलतामालिङ्गति, कृष्णागरुधूम-
लेखेति कृष्णसर्पमवगूहते, रत्नमिति ज्वलन्तमङ्गारमभिस्पृशति, मूढो
विषयोपभोगेष्वनिष्टानुबन्धिषु यः सुखबुद्धिमारोपयति । अधिगतविषय-
तत्त्वोऽपि कस्मात्खद्योत इव ज्योतिर्निर्वीर्यमिदं ज्ञानमुद्वहसि । यतो न
निवारयसि प्रबलरज: प्रसरकलुपितानि त्रेतांसीवोन्मार्गप्रस्थितानीन्द्रि-
याणि, न नियमयसि च क्षुभितं मनः । कोऽयमनङ्गो नाम । धैर्यम-
वलम्ब्य निर्भर्त्स्यतामयं दुराचार : ' इत्येवं वदत एव मे वचनमाक्षिप्य,
प्रतिपक्ष्मान्तरालप्रवृत्तबाष्पवेणिकं प्रमृज्य चक्षुः, करतलेन पाणौ
मामवलम्ब्य, अवोचत्— 'सखे, कि बहुनोक्तेन । सर्वथा स्वस्थोऽसि ।
आशीविषविषवेगविषमाणामेतेषां कुमुमचापसायकानां पतितोऽसि न
गोचरे । सुखमुपदिश्यते परस्य । यस्य चेन्द्रियाणि सन्ति, मनो
वा विद्यते, यः पश्यति वा शृणोति वा, श्रुतमवधारयति वा,
यो वा शुभमिदं न शुभमिदमिति विवेक्तुमलम्, स खलुपदेशमर्हति ।
मम तु सर्वमेत्रेदमतिदूरापतम् । कथमप्येवमेवायत्नविवृतास्तिष्ठन्त्यसवः। '
दूरातीत: खलुपदेशकाल: । समतिक्रान्तो धैर्यावसर: । गता प्रति-
संख्यानवेला । अतीतो ज्ञानावष्टम्भसमय: । केन वान्येनास्मिन्समये
भवन्तमपहायोपदेष्टव्यम्, उन्मार्गप्रवृत्तिनिवारणं वा करणीयम् ।
कस्यान्यस्य वा वचसि मया स्थातव्यम् । को वापरस्त्वत्समो मे
:
नगति बन्धु: । किं करोमि, यन्न शक्नोमि निवारयितुमात्मानम् ।
इयमनेनैव क्षणेन भवता दृष्टा दुष्टावस्था । तद्गत इदानीमुपदेशकालः ।
"