This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
८१
 
गो मकरकेतुः । येनानेन क्षणेनायमीदृशमत्रस्थान्तरमप्रतीकारमुपनीतः ।
कथमेवमेकपदे व्यर्थीभवेदेवंविधो ज्ञानराशिः । अहो बत महच्चित्रम् ।
तथा नामायमा शैशवाद्धीरप्रकृतिरस्खलित
वृत्तिर्मम चान्येषां च मुनि-
कुमारकाणां स्पृहणीयचरित आसीत् । अद्य त्वितर इव परिभूय
ज्ञानम्, अविगणय्य तप: प्रभावम्, उन्मूल्य गाम्भीर्यम्, मन्मथेन
जडीकृत: । सर्वथा दुर्लभं यौवनमस्स्वलितम्' इति । उपसृत्य च
तस्मिन्नेव शिलातलैक पार्श्वे समुपविश्य, अंसदेशावसक्तपाणि: तमनु-
न्मीलितलोचनमेत्र 'सखे पुण्डरीक, कथय किमिदम्' इत्यपृच्छम् ।
 
"
 
9
 
अथ सुचिरसंमीलनालग्नमिव कथमपि प्रयत्नेनानवरतरोदनव-
शादुपजातारुणभावमश्रुजलपटलपूरप्लावितमुत्कुपितमित्र सत्रेदनमित्र
स्वच्छांशुकान्तरितरक्तकमलवनच्छायं चक्षुरुन्मील्य, मन्धरया दृष्टया
सुचिरं विलोक्य माम्, आयततरं निश्वस्य, लज्जाविशीर्यमाणविरलाक्ष-
रम्, 'सखे कपिञ्जल, विदितवृत्तान्तोऽपि कि मां पृच्छसि इति
कृच्छ्रेण शनैः शनैरवदत् । अहं तु तदाकर्ण्य, तदत्रस्थयैव, 'अप्रती -
कारविकारोऽयम्; तथापि सुहृदा सुहृदसन्मार्गप्रवृत्तो यावच्छक्तितः
सर्वात्मना निवारणीय:' इति मनसावधार्य, अब्रवम् – 'सख पुण्डरीक,
सुविदितमेतन्मम । केवलमिदमेव पृच्छामि । यदेतदारब्धं भवता, किमिदं
गुरुभिरुपदिष्टम् ? उत धर्मशास्त्रेषु पठितम् ? उत धर्मार्जनोपायोऽयम् ?
उतापरस्तपसां प्रकार: ? उत स्वर्गगमनमार्गोऽयम् ? उत व्रतरहस्यमि-
दम् ? उत मोक्षप्राप्तियुक्तिरियम् ? आहोस्विदन्यो नियमप्रकार: ? कथ-
मेतद्युक्तं भवतो मनसापि चिन्तयितुम् किं पुनराख्यातुमीक्षितुं वा ।
किमप्रबुद्ध इवानेन मन्मथहतकेनोपहासास्पदतां नीयमानमात्मानं नाव-