This page has not been fully proofread.

८०
 
कादम्बरीसंग्रहः ।
 
'स कदाचिद्धैर्यस्खलनविलक्ष: किंचिदनिष्टमपि समाचरेत् । न हि
किंचिन्न क्रियते हिया । तन्न युक्तमेनमेकाकिनं कर्तुम्' इत्यवधार्य,
अन्वेष्टुमादरमकरवम् । अन्वेषयंश्च यथा यथा नापश्यं तम्, 'तथा
तथा सुहृत्स्नेहकातरेण मनसा तत्तदशोभनमाशङ्कमान:, तरुलतागह-
नानि चन्दनवीधिकालतामण्डपान् सर:कूलानि च वीक्षमाणः, निपु-
णमितस्ततो दत्तदृष्टि: सुचिरं व्यचरम् ।
 
,
 
अचैकस्मिन्सर:समीपवर्तिनि निरन्तरतया कुसुममय इव मधुकर
मय इव परभृतमय इव मयूरमय इवातिमनोहरे वसन्तजन्मभूमिभूत
लतागहने कृतावस्थानम् उत्सृष्टसकलव्यापारतया लिखितमित्र
उत्कीर्णमित्र स्तम्भितमित्र उपरतमिव प्रसुप्तमित्र योगसमाधिस्थमित्र
निश्चलमपि स्ववृत्ताञ्चलितम्, शापप्रदानभयादिवादत्तदर्शनेन कुसुमायु-
धेन संताप्यमानम्, अतिनिस्पन्दतया हृदयनिवासिनीं प्रियां द्रष्टुमन्तः
प्रविष्टैरिवासह्यसंतापसंत्रासप्रली नैरिव मनःक्षोभप्रकुपितैरिवोन्मुच्य गतै-
रिन्द्रियै: शून्यीकृतशरीरम् निस्पन्दनिमीलितेनेक्षणयुगलेन वाष्प--
जलदुर्दिनमुत्सृजन्तम् अलिनिवहनिपीयमानपरिमलैरुपरि
चम्पककुड्मलैस्तप्तशरशल्यकैरिव सधूमै : कुसुमशरेण ताड्यमानम्,
प्रभातचन्द्रमिव पाण्डुतया परिगृहीतम्, निदाघगङ्गाप्रवाहमिव ऋशि -
मानमागतम्, अन्तर्गतानलं चन्दनविटपमित्र म्लायन्तम्, अन्यमित्र,
अदृष्टपूर्वमित्र, अपरिचितमिव, जन्मान्तर मित्रोपगतम्, परां कोटिमधि-
रूढं मन्मथावेशल, अनभिज्ञेयपूर्वाकारं तमहमद्राक्षम् ।
 
पतद्भि-
*
 
अपगत निमेपेण चक्षुषा तदवस्थं चिरमुद्वीक्ष्य समुपजात-
विषादो बेपमानेन हृदयेनाचिन्तयम् - 'एवं नामायमतिदुर्विषहवे--
,
 
19