This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
७९
 
www
 
एवमुक्तश्च मया कपिञ्जल: प्रत्यवादीत् "राजपुत्रि, किं
ब्रवीमि । वागेव मे नाभिधेयविषयमवतरति त्रपया । क्व कन्दमूलफ-
लाशी शान्तो वननिरतो मुनिजनः । क्वायमनुपशान्तजनोचितो विष-
योपभोगाभिलाषकलुषो रागप्रायः प्रपञ्चः । सर्वमेवानुपपन्नम् । आलो-
कय, किमारब्धं दैवेन । अयत्नेनैव खलूपहासास्पदतामीश्वरो नयति
जनम् । न जाने किमिदं वल्कलानां सदृशम् । उताहो जटानां समु-
चितम् । किं तपसोऽनुरूपम् । आहोस्विद्धर्मोपदेशाङ्गमिदम् । अपूर्वेयं
विडम्बना । केवलमवश्यकथनीयमिदम् । अपर उपायो न दृश्यते ।
अन्या प्रतिक्रिया नोपलभ्यते । अन्यच्छरणं नालोक्यते । अन्या गति-
र्नास्ति । अकथ्यमाने च, महाननर्थोपनिपातो जायते । प्राणपरित्यागे-
नापि रक्षणीयाः सुहृदसव इति कथयामि ।
 
E
 
अस्ति • भवत्याः समक्षमेव स मया तथा निष्ठुरमुपदर्शितकोपे-
नाभिहितः । तथा चाभिधाय परित्यज्य तम्, तस्मात्प्रदेशादुपजात-
मन्युः, उत्सृष्टकुसुमावचयः, अन्यं प्रदेशमगमम् । अपयातायां भवत्यां
मुहूर्तमिव स्थित्वा, 'एकाकी किमयमिदानीमाचरति' इति संजात-
वितर्कः, प्रतिनिवृय, विटपान्तरितविग्रहः, तं प्रदेशं व्यलोकयम् ।
यावत्तत्र तं नाद्राक्षम्, आंसीच्च मे मनस्येवम्—'किंतु मदनपरायत्त-
चित्तवृत्तिस्तामेवानुसरन्गतो भवेत् ? गतायां च तस्यां लब्धचेतनो
लज्जमानो न शक्कांति मे दर्शनपथमुपगन्तुम् । आहोस्वित्कुपितः
परित्यज्य मां मतः ? उतान्वेषयन्मामेव प्रदेशमन्यमित: समाश्रितः
स्यात् " इत्येवं विकल्पयन्, कंचित्कालमतिष्ठम् । तेन तु जन्मन:
प्रभृत्यनभ्यस्तेन तस्य क्षणमध्यदर्शनेन दूयमानः पुनरचिन्तयम्---
 
2