This page has not been fully proofread.

७८
 
कादम्बरीसंग्रहः ।
 
कि किम भिहितासि तेन, कियन्तं कालमवस्थितासि तत्र, कियदनु-
सरन्नस्मानसावागतः' इति पुन: पर्यपृच्छम् । अनयैव च कथया
तया सह तमिन्नेव प्रासादे तथैव प्रतिषिद्धाशेषपरिजनप्रवेशा दिवस-
मत्यवाहयम् ।
 
अथ लोहितायति गगनतलोपान्तावलम्बिनि रविबिम्बे, मुकु-
लितरक्तपङ्कजपुटप्रविष्टमधुकरावलीषु रविविरहमूर्च्छान्वकारितहृदया-
स्वित्र प्रारब्धनिमीलनासु पद्मिनीषु, सा छत्रग्राहिणी समागत्याकथ-
यत् - 'भर्तृदारिके, तयोर्मुनिकुमारयोरन्यतरो द्वारि तिष्ठति, कथयति
च - अक्षमालामुपयाचितुमागतोऽस्मीति' ।
 
अहं तु मुनिकुमारनामग्रहणादेव स्थानस्थितापि गतेव द्वार-
देशम्, समुपजाततदागमनाशङ्का समाहूयान्यतमं कञ्चुकिनम् 'गच्छ,
प्रवेश्यताम्' इत्यादिश्य प्राहिणवम् ।
 
अथ मुहूर्तादिव तं तस्य मकरकेतनस्येव वसन्तसमयम्, वस-
न्तसमयस्येत्र दक्षिणा निलम्, अनुरूपं सखायमृषिकुमारकं कपिञ्जल-
नामानमागच्छन्तमपश्यम् । अन्तिकमुपगतस्य चास्य पर्याकुलमिच
शून्यमिवाकारमलक्षयम् । उत्थाय च कृतप्रणामा सादरं स्वयमासन-
मुपाहरम् । उपविष्टस्य च बलादनिच्छतोऽपि प्रक्षाल्य चरणों उपमृ-
ज्योत्तरीयांशुक पछुवेन, अव्यवधानायां भूमावेव तस्यान्तिके समुपा-
विशम् । अथ मुहूर्तमित्र स्थित्वा किमपि विवक्षुरित्र, स तस्यां मत्स-
मीपोपविष्टायां तरलिकायां चक्षुरपातयत् । अहं तु विदिताभिप्राया
दृष्ट्यैव 'भगवन्, अव्यतिरिक्तेयमस्मच्छरीरात् । अशङ्कतमभिधीय-
ताम्' इत्यत्रोचम् ।
 
-