This page has not been fully proofread.

७६
 
कादम्बरीसंग्रहः ।
 
कि पश्यामि, किमालपामि, कस्य कथयामि, कोऽस्य प्रतीकार इति
सर्वे च नाबासिषम् । केत्रलमारुह्य कुमारीपुरप्रसादम्, विसर्ज्य
च सखीजनम्, द्वारि निवारिताशेषपरिजनप्रवेशा, सर्वव्यापारा-
नुत्सृज्य, एकाकिनी मणिजालगवाक्ष निक्षिप्तमुखी, तामेव दिशं
तत्सनाथतया प्रसाधितामित्र पूर्णचन्द्रोदयालंकृतामिव दर्शनसुभगामी-
क्षमाणा तत्काद्दिगन्तरादागच्छन्तमनिलमपि वनकुसुमपरिमलमपि
शकुनिव्वनिमपि तद्वार्ता प्रष्टमीहमाना, तद्वल्लभतया तपःक्लेशायापि
स्पृहयन्ती, तत्परिग्रहान्मुनिवेषस्याग्राम्यतां तच्छ्रवणसंपर्कात्पारिजातकु-
सुमस्य मनोहरतां तन्निवासात्सुरलोकस्य रम्यतामव्यारोपयन्ती, दूरस्थ -
त्यापि कमलिनीव सवितुस्तम्यैवाभिमुखी, तथैव तामक्षावली कण्ठेनो-
द्वहन्ती, तथैव च तथा कर्णलग्नया पारिजातमञ्जर्या कण्ट कितैककपो-
लफलका, निस्पन्दमतिष्ठम् ।
 
अथ ताम्बूलकरङ्कवाहिनी मदीया तरलिका नाम मयैव
- सह् गता स्नातुमासीत् । सा च पश्चाच्चिरादिवागत्य, तथावस्थितां
शनैर्मामवादीत् – 'भर्तदारिके, यौ तौ तापसकुमारको दिव्याका-
· रावस्माभिरच्छोंदसरस्तीरे दृष्टौ, तयोरेकः, येन भर्तदुहितुरियमवतं-
सीकृता सुरतरुकुसुममञ्जरी, स तस्माद्वितीयादात्मनो रक्षन् दर्शनम्,
अति निभृतपदः, कुसुमितलतासंतानगहनान्तरेणोपसृत्य मामागच्छन्तीं
पृष्ठतः, भर्तृदारिकामुद्दिश्याप्राक्षीत् – 'बालिके, केयं कन्यका, कस्य
वापत्यम्, किमभिधाना, का गच्छति' इति । मयोक्तम् एषा
खलु गन्धर्वाधिपतेर्हसस्य दुहिता महाश्वेता नाम गन्धर्वाधिवासं हेम-
कूटाचलमभिप्रस्थिता' इति कथिते च मया, किमपि चिन्तयन्मुहूर्त-
!