This page has not been fully proofread.

७४
 
कादम्बरीसंग्रहः ।
 
-
 
प्यतां श्रवणशिखरम् । व्रजतु सफलतां जन्म पारिजातस्य' इत्येव-
मभिदधानां तामनुयान्तीमालोक्य, 'को दोष: सखे, 'क्रियतामस्या:
प्रणयपरिग्रहः' इत्यभिधाय बलादियमनिच्छतोऽप्यस्य मया कर्ण-
पूरीकृता । तदेतत्कात्म्यैन, योऽयम्, या चेयम्, यथा चास्य श्रव
पशिखरं समारूढा, तत्सर्वमावेदितम्" इत्युक्तवति तस्मिन्, स तपो-
धनयुवा किंचिदुपदर्शितस्मितो मामवादीत् – अयि कुतूहलिनि, किम-
नेन प्रश्नायासेन । यदि रुचितसुरभिपरिमला, गृह्यतामियम्' इत्युक्त्वा
समुपसृत्य, आत्मीयाच्छ्रवणादपनीय मदीये श्रवणपुढे तामकरोत् । स
च मत्कपोलस्पर्शतरलीकृताङ्गुलिजालकात्करतलादक्षमालां लज्ज्या
सह गलितामपि नानासीत् । अथाहं तामसंप्राप्तामेव मूतलमक्षमाला
गृहीत्वा, सलीलं कण्ठाभरणतामनयम् ।
 
"
 
इत्थंभूते च व्यतिकरे छत्रग्राहिणी मामत्रोचत् - 'भर्तृ-
दारिके, स्नाता देवी । प्रत्यासीदति गृहगमनकाल: । तत्क्रियतां
मजनविधिः' इति । अहं तु तेन तस्या बचनेन नवगृहा करिणीव
प्रथमाङ्कुशपातेनानिच्छया कथंकथमपि समाकृष्यमाणा, तन्मुखादति-
कृच्छ्रेण दृष्टिमाकृष्य, स्नातुमुदचलम् ।
 
उच्चलितायां च मयि द्वितीयो मुनिदारकस्तथाविधं तस्य धैर्य-
स्वलितमालोक्य किंचित्प्रकटितप्रणयकोप इवावादीत् - 'सखे पुण्ड-
रीक, नैतदनुरूपं भवतः । क्षुद्रजनक्षुण्ण एष मार्गः । धैर्यधना हि
साधवः । किं य: कविप्राकृत इव विभवन्तमात्मानं न रुणत्सि ।
कुतस्तवापूर्वोऽयमचेन्द्रियोपप्लव: येनास्येवंकृत: । क्व ते तद्धैर्यम् ।
क्वासाविन्द्रियजय: । क्व सा प्रशान्ति: । क्व तत्कुलक्रमागतं ब्रह्म-
9