This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
प्रकटया विकृत्या द्विगुणीकृतमदनावशा, तत्क्षणमहमवर्णनयोग्यां
कामप्यवस्थामन्वभवम् ।
 
प्राप्तप्रसरा चोपसृत्य तं द्वितीयमस्य सहचरं मुनिबालकं प्रणाम-
पूर्वकमपृच्छम् - 'भगवन्, किमभिधान: ? कस्य चायं तपोधनयुवा ?
किनाम्नस्तरोरियमनेनावतंसीकृता कुसुममञ्जरी? जनयति हि मे मनसि
महत्कौतुकमस्या: समुत्सर्पन्नसाधारणसौरभोऽयमनाघ्रातपूर्वो गन्ध:'
इति । स तु मामषद्विहस्याब्रवीत् "बाले, किमनेन पृष्टेन प्रयोजनम् ।
अथ कांतुकमावेदयामि । श्रूयताम्—
 
अस्ति खलु सकलत्रिभुवनप्रख्यातकीर्तिः, महामुनिर्दिव्यलोकनि-
बासी श्वेतकेतुर्नाम । तस्य च कदाचिदेवतार्चनकमलान्युन्द्र मन्दा-
किनीमवतरतस्त्रिभुवनसुन्दरं रूपमास्वादयन्त्या मन्मथविकृताया विक-
चपुण्डरीकोपविष्टाया देव्या लक्ष्म्याः सद्य एव कुमार एष समुदपादि ।
ततस्तमुत्सङ्गेनाद्राय सा 'भगवन् गृहाण, तवायमात्मजः' इत्युक्त्वा
तस्मै श्वेतकेतवे ददौ । असावपि बालजनोचिताः सर्वाः क्रिया:
कृत्वा, तस्य पुण्डरीकसंभवतया तदेव पुण्डरीक इति नाम चक्रे ।
प्रतिपादितव्रतं च तमागृहीत
सकल विद्याकलापमकार्षीत् । सोऽयम् ।
 
,
 
इयं च, सुरासुरैर्मथ्यमानात्क्षीरसागरादुद्गतो यः पारिजातनामा
पादपः, तस्य मञ्जरी । यथा चैषा व्रतविरुद्धमस्य श्रवणसंसर्गमासा-
दितवती, तदपि कथयामि । अद्य चतुर्दशीति भमवन्तमम्बिकापति
कैलासगतमुपासितुममरलोकान्मया सह नन्दनवनसमीपेनायमनुसरन्,
निर्गय साक्षानन्दनवनदेवतया पारिजातकुसुममञ्जरीमिमामादाय,
प्रणम्याभिहित: – 'भगवन् इयमवतंसविलासदुर्ललिता समारो-
>