This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
नाध्यप्रभवन्ती करणानाम्, स्तम्भितेव, लिखितेव, केनापि विधृतेव,
निस्पन्दसकलावयवा तमतिचिरं व्यलोकयम् । अनन्तर च मेऽन्तर्म-
दनावकाशमित्र दातुमाहितसंताना निरीयुः श्वासमरुतः । स्वेदसलिल-
लवलेखाक्षालितेवागललजा ।
 
आसीच मम मनसि — 'शान्तात्मनि दूरीकृतविषयव्यतिकरे-
ऽस्मिने मां निक्षिपता किमिदमनायेंणासदृशमारब्धं मनसिजेन । एवं
च नामातिमूढं हृदयमङ्गनाजनस्य । यदयमनुरागविषययोग्यतामपि
विचारयितु नालम् । क्वेदमतिभास्वरं धाम तेजसां तपसां च । क्व च
प्राकृतजनाभिनन्दितानि मन्मथपरिस्पन्दितानि । नियतमयं मामेव
मकरलाञ्छनेन विडम्ब्यमानामुपहसति मनसा । चित्रं चेदम् -
यदहमेवमबगच्छन्त्यपि न शक्नोम्यात्मनो विकारमुपसंहर्तुम् । कथम-
नेन क्षणेनाकारमात्रालोकनाकुलीभूतमेवमस्वतन्त्रतामुपैत्यन्त:करणम् ।
यावदेव सचेतनास्मि, यात्रदेव च न परिस्फुटमनेन विभाव्यते मे
मदनदुश्चेष्टितलाघवमेतत् तात्रदेवास्मात्प्रदेशादपसर्पणं श्रेयः । कदा-
चिदनभिमत स्मरविकारदर्शनकुपितोऽयं शापाभिज्ञां करोति माम् । अदू-
रकोपा हि मुनिजनप्रकृतिः' इत्यत्रधार्य, अपसर्पणाभिलापिण्यहमभवम् ।
अशेषजनपूजनीया चेयं जातिरिति कृत्वा तस्मै प्रणाममकरवम् ।
 
9
 
अथ कृतप्रणामायां मयि, दुर्लङ्घशासनतया भगवतो मनोभुवः,
अविनयबहुलतया चाभिनवयौवनस्य, चपलतया च मनोवृत्तेः, तथा-
भवितव्यतया च तस्य तस्य वस्तुनः, कि बहुना, मम मन्दभाग्य -
दौरात्म्यात्, अस्य चेदृशस्य क्लेशस्य विहितत्वात्, तमपि मद्विकारद -
र्शनापहृतधैर्ये प्रदीपमिव पवनस्तरलतामनयदनङ्गः । तया तु तस्याति-
-