2023-02-19 13:23:24 by ambuda-bot
This page has not been fully proofread.
कादम्बरीसंग्रहः ।
,
यौवन मिव धर्मस्य, विलासमिव सरस्वत्याः, स्वयंवरपतिमिव सर्वविद्या-
नाम्, संकेतस्थानमिव सर्वश्रुतानाम् आत्मानुरूपेण सवयसा परेण
देवतार्चनकुसुमान्युच्चिन्वता तापसकुमारेणानुगतंम् अतिमनोहर
स्नानार्थमागतं मुनिकुमारकमपश्यम् ।
तेन च कर्णावतंसीकृतां कृत्तिकातारास्तबकानुकारिणीमदृष्टपूर्वी
कुसुममञ्जरीमद्राक्षम् । अस्या: परिभूतान्यकुसुमामोदो नन्वयं परिमल
इति मनसा निश्चित्य तं तपोधनयुवानमीक्षमाणाहमचिन्तयम्
'अहो रूपातिशयनिष्पादनोपकरणकोश स्याक्षीणता विधातुः । यत्त्रि-
भुवनाद्भुतरूपसंभारं भगवन्तं कुसुमायुधमुत्पाद्य, तदाकारातिरिक्त-
रूपरा शिरयमपरो मुनिमायामयो मकरकेतुरुत्पादित: । मन्ये च,
सकलजगन्नयनामन्दकरं शशिबिम् विरचयता, लक्ष्मीलीलावासभव-
नानि कमलानि सृजता, प्रजापतिना प्रथममेतदाननाकारकरणकौ-
शलाभ्यास एव कृतः । अन्यथा किमित्र हि सदृशवस्तुविरचनाया:
कारणम् । अलीकं चेदम्, यथा किल- सकला: कला: कलावतो
बहुलपक्षे क्षीयमाणस्य सुषुम्नानाम्ना रश्मिना रविरापिबतीति । मन्ये -
ता: खल्वस्य गंभस्तयः समस्ता वपुरिदमाविशन्तीति । कुतोऽन्यथा
रूपापहारिणि क्लेशबहुले तपसि वर्तमानस्येदं लावण्यम्' इति विचिन्त-
यन्तीमेव मामविचारितगुणदोषविशेषो रूपैकपक्षपाती नवयौवनसुलभ:
कुसुमायुधः परवशामकरोत् ।
3
4
उच्छुसितैः सह विस्मृतनिमेषेण किंचिदामुकुलितपक्ष्मणा
दक्षिणेन चक्षुषा सस्पृहमापिबन्तीव किमपि याचमानेव, हाहा किमि -
दमसांप्रतमतिहेपणम कुलकुमारीजनोचितमिदं मया प्रस्तुतमिति जाना-
.