This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
च दशमेऽहनि कृतयथोचितसमाचारो महाश्वेतेति यथार्थमेव नाम
कृतवान् । साहं पितृभवन बालतया कलमधुरप्रलापिनी वीणेव
गन्धर्वाणामङ्कादङ्क संचरन्ती, अविदितस्नेहशोकायासमनोहरं शैश-
वमतिनीतवती । क्रमेण च कृतं मे वपुषि वसन्त इव मधुमासेन..
मधुमास इव नवपलवेन. नवपल्लव इत्र कुसुमेन, कुसुम इव मधुक-
रण, मधुकर इत्र मदेन, नवयौधनेन पदम् ।
 
अथ विजृम्भमाणनवनलिनवनेषु सकलजीवलोकहृदयानन्ददाय-
केषु मधुमासदिवसेषु, एकदाहमम्बया सह मधुमासविस्तारितशोभं
प्रोत्फुल्लनव नलिन कुमुदकुवलयकलारमिदमच्छोदं सर: स्नातुमभ्या-
गमम् । अत्र च बहुलकुसुमरजःपटलमग्नकलहंसपदलेखम तिरमणीय-
मिदं तीरतरुतलमिति स्निग्त्रमनोहर तरौद्देशदर्शनलोभाक्षिप्तहृदया सह
सखीजनेन व्यचरम् ।
 
एकस्मिंच प्रदेशे झटिति वनानिलेनोपनीतं निर्भरविकसितेऽपि
कामनेऽभिभूतान्यकुसुमपरिमलम्, विसर्पन्तम्, अहमहमिकया मधुक-
रकुलैरनुबध्यमानम्, अनाघातपूर्वममानुपलोकोचितं कुसुमगन्धमभ्य-
जिघ्रम् । 'कुतोऽयम्' इत्युपारूढकुतूहला चाहं मुकुलितलोचना तेन
कुसुमगन्धेन मधुकरीवाकृष्यमाणा कतिचित्पदानि गत्वा, हरहुताश-
नेन्धनीकृत मदनशोकविधुरं वसन्तमिव तपस्यन्तम् अतितेजस्वितया
प्रचलतटिलतापञ्जरमध्यगतमित्र विभाव्यमानम्, एकेन सनालवकुल-
फलाकार कमण्डलुम्, अपरेण च स्फटिकाक्षमालिकां करेण कलय-
न्तम् आत्मतेजसा विजित्य सवितारमागृहीतेन परिवेषमण्डलेनेव
मौअमेखलागुणेन परिक्षिप्तजघनभागम् अलंकारमिव ब्रह्मचर्यस्य,