2023-02-19 13:23:24 by ambuda-bot
This page has not been fully proofread.
कादम्बरीसंग्रहः ।
ररिष्टा च बभूवतुः, ताभ्यां गन्धर्वैः सह कुलद्वयं जातम् । एवमेता-
न्येकत्र चतुर्दश कुलानि । गन्धर्वाणां तु दक्षात्मजाद्वितयसंभवं तदेव
कुलद्वयं जातम् । तत्र मुनेस्तनयश्चित्रसेनादीनां पञ्चदशानां भ्रातॄणा-
मधिको गुणैः षोडशश्चित्ररथो नाम । सकिल सर्वेषां गन्धर्वाणामा-
विपत्यं शैशव एवाप्तवान् । इतश्च नातिदूरे तस्यास्माद्भारतवर्षादुत्तरे-
णानन्तरे किंपुरुषनानि वर्षे वर्षपर्वतो हेमकूटो नाम निवासः । तत्र
च तद्भुजयुगपरिपालितान्यनेकानि गन्धर्वशतसहस्राणि प्रतिवसन्ति ।
तेनैव चेदं चैत्ररथं नामातिमनोहरं काननं निर्मितम् । इदं चाच्छोदा-
मिधानमतिमहत्सरः खानितम् । अयं च भवानीपतिरुपरचितो भग-
वान् । अरिष्टायास्तु पुत्रस्तुम्बुरुप्रभृतीनां सोदर्याणां षण्णां ज्येष्ठो हंसो
नाम जगद्विदितो गन्धर्वः, तस्मिद्वितीये गन्धर्वकुले गन्धर्वराजेन चित्र-
रथेनैवाभिषिको बाल एव राज्यपदमासादितवान् । अपरिमितगन्धर्व-
चलपरिवारस्य तस्यापि स एव गिरिरधिवासः । यत्तु तत्सोममयूखसं-
भूतानामप्सरसां । कुलम्, तस्मात्किरणजालानुसारगलितेन सकलेनेव
रजनिकरकलाकलापलावण्येन निर्मिता त्रिभुवननयनाभिरामा भगवती
द्वितीयेव गौरी गौरीतिनाम्ना हिमकरकिरणावदातवर्णा कन्यका प्रसूता ।
तां च द्वितीयगन्धर्वकुलाधिपतिर्हस : प्रणयिनीमकरोत् । सा तु हंसेन
संयोजिता सदृशसमागमोपजनितामतिमहतीं मुदमुपगतवती । निखि-
लान्तः पुरस्वामिनी च तस्याभवत् ।
---*
*
तयोश्च तादृशयोर्महात्मनोरहमीदृशी विगतलक्षणा शोकाय
केवलमनेकदुःखसहस्रभाजनमेकैवात्मजा समुत्पन्ना । तातस्त्वनपत्य-
तया सुतजन्मातिरिक्तेन महोत्सत्रेन मज्जन्माभिनन्दितवान् । अवाप्ते