2023-02-19 13:23:24 by ambuda-bot
This page has not been fully proofread.
कादम्बरीसंग्रहः ।
६७
वर्तितस्नानविधिः, तान्यमृतरसस्वादून्युपभुज्य फलानि, पीत्वा च
तुषारशिशिरं प्रस्रवणजलम् उपस्पृश्यैकान्ते तावदवत स्थे, यावत्तयापि
कन्यकया कृतो जलफलमूलमयेष्वाहारेषु प्रणय: ।
?
अथ परिसमापिताहारां निर्वर्तितसंध्योचिताचारा शिलातले
वित्रब्धमुपविष्टां निभृतमुपसृत्य, नातिदूरे समुपविश्य, मुहूर्तमिध
स्थित्वा, चन्द्रापीड: सविनयमवादीत् - 'भगवति, त्वत्प्रसाद प्राप्तिप्रोत्सा-
हितेन कुतूहलेनाकुली क्रियमाणो मानुषतासुलभो लघिमा बलार्दान-
च्छन्तमपि मां प्रश्नकर्मणि नियोजयति । जनयति हि प्रभुप्रसाद-
लवोऽपि प्रागल्भ्यमधीरप्रकृतेः । स्वल्पाप्येकदेशावस्थाने कालकला
परिचयमुत्पादयति । अणुरप्युपचारपरिग्रह प्रणयमारोपयति । तद्यदि
नातिखेदकरमित्र, ततः कथनेनात्मानमनुप्राह्यमिच्छामि। अतिमह-
ग्वलु भवदर्शनात्प्रभृति मे कौतुकम स्मिन्विषये । कतरन्मरुतामृ-
षीणां गन्धर्वाणा गुह्यकानामप्सरसां वा कुलमनुगृहीतं भगवत्या
जन्मना । किमर्थं वास्मिन्कुसुमसुकुमारे नवे वयसि ग्रहणम् ।
क्वेदं वयः । क्वेंयमाकृति: । क्व चायं लावण्यातिशय: । क्वेयमिन्द्रि-
याणामुपशान्तिः । तदद्भुतमिव मे प्रतिभाति । किनिमित्तं वानेक-
सिद्धसाध्यसंबाधानि सुरलोकसुलभान्यपहाय दिव्याश्रमपदानि, एका-
किनी वनमिदममानुपमधिवससि । कश्चायं प्रकार:, यत्तैरेव पञ्चभिर्म-
हाभूतैराधमीदृशीं धवलतां धत्ते शरीरम् । नेदमस्माभिरन्यत्र दृष्टश्रुत-
पूर्वम् । अपनयतु नः कौतुकम्। आवेदयतु भवती सर्वम्' इत्येवमभि-
हिता सा, किमप्यन्तर्ध्यायन्ती, तूष्णीं मुहूर्तमित्र स्थित्वा, निःश्वस्य,
स्थूलस्थूलैरनबद्धबिन्दुभिरश्रुभिरामी लतलोचना निःशब्द रोदितुमारेभे।