This page has not been fully proofread.

६६
 
कादम्बरीसंग्रहः ।
 
माना मया कथयिष्यति' इत्येवं च कृतमति: पदशतमात्रमिव गत्वा,
अन्तःस्थापितमणिकमण्डलुमण्डलाम्, एकान्तावलम्बितयोगपट्टिकाम्,
 
विशाखिकाशिखरनिबद्धनालिकेरीफलबल्कलमयधौतोपानद्युगोपेताम्,
शङ्खमयेन भिक्षाकपालेनाधिष्ठिताम्, संनिहितभस्मालाबुकां गुहा-
मद्राक्षीत् । तस्याश्च द्वारि शिलातले समुपविष्टः, वल्कलशयनशिरो-
भाग विन्यस्तवीणां ततः पर्णपुटेन निर्झरादागृहीत मर्धसलिलमादाय
तां कन्यकां समुपस्थिताम्, 'अलमतियन्त्रणया । कृतमतिप्रसादेन ।
भगवति, प्रसीद । विमुच्यतामयमत्यादरः । त्वदीयमालोकनमपि सर्व-
पापप्रशमनमघमर्षणमिव पवित्रीकरणायालम् । आस्यताम्' इत्यत्र-
वीत् । अनुबध्यमानश्च तया, तां सर्वामतिथिसपर्यामतिदूरावनतेन
शिरसा सप्रश्रयं प्रतिजग्राह ।
 
कृतातिथ्यया च तया द्वितीयशिलातलोपविष्टया क्षणमिव
तूष्णीं स्थित्वा क्रमेण परिपृष्टः, दिग्विजयादारभ्य किंनरमिथुनानुस-
रणप्रसङ्गेनागमनमात्मनः सर्वमाचचक्षे । विदितसकलवृत्तान्ता चोत्थाय
सा कन्यका भिक्षाकपालमादाय तेषामायतनलरूणां तलेषु विच-
चार । अचिरेण तस्या: स्वयंपतितैः फलैरपूर्यत भिक्षाभाजनम् ।
आगत्य च तेषां फलानामुपयोगाय नियुक्तवती चन्द्रापीडम् । आ-
सीच्च तस्य चेतसि
'नास्ति खल्वसाध्यं नाम तपसाम् । किमत:
 
परमाश्वर्यम्, यदत्र व्यपगतचेतना अपि सचेतना इवास्यै भगवत्यै
समतिसृजन्तः फलान्यात्मानुग्रहमुपपादयन्ति वनस्पतय: । चित्रमिद -
मालोकितमस्माभिरदृष्टपूर्वम्' इत्यधिकतरोपजातविस्मयश्चोत्थाय तमेव
प्रदेशमिन्द्रायुधमानीय, व्यपनीतपर्याणं नातिदूरे संयम्य, निर्झरजलनि-