2023-02-19 13:23:23 by ambuda-bot
This page has not been fully proofread.
कादम्बरीसंग्रहः ।
६५
अयमतिमनोहरो मानवानामगम्यो दिव्यजनसंचरणोचितः प्रदेशो
वीक्षित: । अत्र च सलिलमन्वेषयता हृदयहारि सिद्धजनोपस्पृष्टजलं
सरो दृष्टम् । तत्तीरलेखाविश्रान्तेन चामानुषं गीतमाकर्णितम् । तच्चा-
नुसरता मानुषदुर्लभदर्शना दिव्यकन्यकेयमालोकिता । न हि मे
संशीतिरस्या दिव्यतां प्रति । आकृतिरेवानुमापयत्यमानुषताम् ।
कुतश्च मर्त्यलोके संभूतिरेवंविधानां गन्धर्वध्वनिविशेषाणाम् । तद्यदि
मे सहसा दर्शनपथान्नापयाति, नारोहति वा कैलासशिखरम्, नोत्प-
तति वा गगनतलम्, ततः 'का त्वम्, किमभिधाना वा, किमर्थ
प्रथमे वयसि प्रतिपन्ना व्रतम् ?" इति सर्वमेतदेनामुपसृत्य पृच्छामि ।
अतिमहानयमवकाश आश्चर्याणाम्' इत्यवधार्य तस्यामेव स्फटिकमण्ड-
पिकायामन्यतमं स्तम्भमाश्रित्य समुपविष्ट, गीतसमाप्त्यवसरं प्रतीक्ष
माणस्तस्थौ ।
W
,
अथ गौतावसाने सा कन्यका समुत्थाय प्रदक्षिणीकृत्य
कृतहरप्रणामा, परिवृत्य चन्द्रापीडमाबभाषे- 'स्वागतमतिथये। कथ-
मिमां भूमिमनुप्राप्ती महाभागः । तदुत्तिष्ठ । आगम्यताम्, अनुभूयता-
मतिथिसत्कार:' इति । एवमुक्तस्तु तथा संभाषणमात्रेणैवानुगृहीत -
मात्मानं मन्यमानः उत्थाय भक्तया कृतप्रणाम:, 'भगवति, यथा-
ज्ञापयसि इत्यभिधाय दर्शितविनयः शिष्य इव तां व्रजन्तीमनु-
चत्राज । ब्रजंश्च समर्थयामास – 'हन्त, तावन्नेयं मां दृष्टा तिरोभूता ।
कृतं हि मे कुतूहलेन प्रश्नाशया हृदि पदम् । यथा चेयमस्यास्तप-
स्विजनदुर्लभदिव्यरूपाया अपि दाक्षिण्यातिशया प्रतिपत्तिरभिजाता
विभाव्यते तथा संभावयामि नियतमियम खिलमात्मोदन्तमभ्यर्थ्य
gr