This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
,
 
. तेन तपोराशिनेत्र विसर्पता देहप्रभावितानेन सगिरिकाननं दन्तमय-
मित्र तं प्रदेशं कुर्वतीम्, पञ्चमहाभूतमयमपहाय द्रव्यात्मकमङ्गनिष्पा-
दनोपकरणकलापं धवलगुणेनेव केवलेनोत्पादिताम्, क्षीरोदधिदेवता-
मित्र सहवासपरिचितहरचन्द्रलेखोत्कण्ठाकृष्टाम्, त्रयीमित्र कलियुग -
ध्वस्तधर्मशोकगृहीतवनवासाम्, श्वेतद्वीपलक्ष्मी मिवान्यद्वीपावलोक-
नकुतूहलागताम्, धर्महृदयादिव निर्गताम्, शङ्खादिवोत्कीर्णाम्,
मुक्ताफलादिवाकृष्टाम् इयत्तामिव धवलिनः जटापाशग्रथितमु-
त्तमाङ्गेन मणिमयं नामाङ्कमीश्वरचरणद्वयमुद्वहन्तीम्, अयुग्मलो-
चनसकाशात्प्रसादलब्धेन चूडामणिचन्द्रमयूखजालेनेव मण्डली-
कृतेन ब्रह्मसूत्रेण पवित्रीकृतकायाम् उत्सङ्गगतां च स्वसुता-
मित्र सूक्ष्मशङ्खखण्डिकाङ्गुलीयकपूरिताङ्गुलिना त्रिपुण्डकावशेषभ
स्मपाण्डुरेण प्रकोष्ठबद्धशङ्खखण्डकेन दन्तमयीं दक्षिणकरेण वीणा-
मास्फालयन्तीम्, सुमधुरया च गीत्या देवं विरूपाक्षमुपवीणय-
न्तीम्, प्रत्यक्षामिव गन्धर्वविद्याम्, निर्ममाम्, निरहंकाराम्, निर्मत्स-
राम्, अमानुषाकृतिम्, दिव्यत्वादपरिज्ञायमानवयः प्रमाणामप्यष्टादश-
वर्षदेशीया मित्रोपलक्ष्यमाणाम्, प्रतिपन्नपाशुपतव्रतां कन्यकां ददर्श ।
 

 
,
 
"
 
,
 
ततोऽवतीर्य, तरुशाखायां बद्धा तुरंगम्, उपसृत्य भगवते
भक्त्या प्रणम्य त्रिलोचनाय, तामेव दिव्ययोपितमनिमेपपक्ष्मणा निश्च-
लनिबद्धलक्ष्येण चक्षुषा पुनर्निरूपयामास । उदपादि चास्य तस्या
रूपसंपदा कान्त्या प्रशान्या चाविर्भूतविस्मयस्य मनसि 'अहो
जगति जन्तूनामसमर्थितोपनतान्यापतन्ति वृत्तान्तान्तराणि । तथा
हि मया मृगयायां यदृच्छया निरर्थकमनुबनता तुरंगमुग्व मिथुनम्,
 
-