This page has not been fully proofread.

॥ श्रीः ॥
 
॥ कादम्बरीसंग्रहः ॥
 
आसीदशेषनरपतिशिरः समभ्यर्चितशासन:, पाकशासन इवा-
परः, चतुरुदधिमालामेखलाया भुवो भर्ता, प्रतापानुरागावनतसमस्त-
सामन्तचक्रः) कर्ता महाश्वर्याणाम्, आहर्ता <error>ऋतूनाम्,</error><fix>क्रतूनाम्</fix> आदर्श: सर्व-
शास्त्राणाम् उत्पत्ति: कलानाम् कुलभवनं गुणानाम् आश्रयो
रसिकानाम्, राजा शूद्रको नाम ।
 
यश्च मनसि धर्मेण, कोपे यमेन, प्रसादे धनदेन, प्रतापे वहूि-
ना, भुजे भुवा, दृशि श्रिया, वाचि सरस्वत्या, मुखे शशिना, बट
मरुता, प्रज्ञायां सुरगुरुणा, रूपे मनसिजेन, तेजसि सवित्रा च वस-
ता, सर्वदेवमयस्य प्रकटितविश्वरूपाक्कृतेरनुकरोति भगवतो नारायणस्य ।
तस्य च राज्ञो जलावगाहनायातंजयकुअरकुम्भसिन्दूरसंध्या-
यमानसलिलया वेत्रवत्या सरिता परिगता विदिशाभिधाना नगरी रा-
जधान्यासीत् ।
 
स तस्यामवजिताशेषभुवनमण्डलतया विगतराज्यचिन्ताभार--
निर्वृतः, <error>बुट्यूमिव</error> <fix>वलयमिव</fix> लीलया भुजेन भुवनभारमुद्वहन्, अमरगुरुमपि
प्रज्ञयोपहस<flag>द्धि</flag>रनेफकुलक्रमागतैर सकृदालोचित नीतिशास्त्र निर्मटमनोभि
 
w