This page has not been fully proofread.

॥ श्रीः ॥
 

 
॥ कादम्बरीसंग्रहः ॥
 

 
आसीदशेषनरपतिशिरः समभ्यर्चितशासन:, पाकशासन इवा-

परः, चतुरुदधिमालामेखलाया भुवो भर्ता, प्रतापानुरागावनतसमस्त-

सामन्तचक्रः) कर्ता महाश्वर्याणाम्, आहर्ता ऋतूनाम्, आदर्श: सर्व-

शास्त्राणाम् उत्पत्ति: कलानाम् कुलभवनं गुणानाम् आश्रयो

रसिकानाम्, राजा शूद्रको नाम ।
 

 
3
 
,
 

 
यश्च मनसि धर्मेण, कोपे यमेन, प्रसादे धनदेन, प्रतापे वहूि-

ना, भुजे भुवा, दृशि श्रिया, वाचि सरस्वत्या, मुखे शशिना, बट

मरुता, प्रज्ञायां सुरगुरुणा, रूपे मनसिजेन, तेजसि सवित्रा च वस-

ता, सर्वदेवमयस्य प्रकटितविश्वरूपाक्कृतेरनुकरोति भगवतो नारायणस्य ।

तस्य च राज्ञो जलावगाहनायातंजयकुअरकुम्भसिन्दूरसंध्या-

यमानसलिलया वेत्रवत्या सरिता परिगता विदिशाभिधाना नगरी रा-

जधान्यासीत् ।
 

 
स तस्यामवजिताशेषभुवनमण्डलतया विगतराज्यचिन्ताभार--

निर्वृतः, बुट्यूमिव लीलया भुजेन भुवनभारमुद्वहन्, अमरगुरुमपि

प्रज्ञयोपहसद्धिरनेफकुलक्रमागतैर सकृदालोचित नीतिशास्त्र निर्मटमनोभि
 

 
w