This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
३६
 
न्त्रीझंकार मिश्रममानुषं गीतशब्दमशृणोत् । श्रुत्वा च, 'कुतोऽत्र
विगतमर्त्यसंपाते प्रदेशे गीतध्वनेः संभूतिः' इति समुपजातकौतुकः,
कमलिनीपत्रस्त्रस्तरादुत्थाय, तामेव गीतसंपातसूचितां दिशं चक्षुः
प्राहिणोत् । अतिदवीयस्तया तु तस्य प्रदेशस्य, प्रयत्नव्यापृतलोचनो-
sपि विलोकयन्त्र किंचिद्ददर्श । तमेव केवलमनवरतं गीतशब्दं शुश्राव ।
कुतूहलवशाच गीतध्वनिप्रभवजिज्ञासया कृतगमनबुद्धि, दत्तपर्याण-
मिन्द्रायुधमारुह्य, प्रियगीतैः प्रथमप्रस्थितैरप्रार्थितैरपि वनहरिणैरुपदिश्य-
मानवर्मा, पश्चिमया सरस्तीरवनलेखया निमित्तीकृत्य तं गीतध्वनि-
मभिप्रतस्थे ।
 
क्रमेण च समुखागतैरच्छनिर्झरजलकणजालजनितजडिमभिः
पुण्यैः कैलासमारुतैरभिनन्द्यमानः, गत्वा च तं प्रदेशम्, शुकशतमु -
खनखशिखरशकलितफलस्फीतैः, जलधरजललुब्धमुग्धचातकध्वानमु-
खरिततमालखण्डः, इभकलभकोल्लूनपल्लववेल्लितलवलीवलयैः, अत्रि-
रलफलनिकरावन तनालिकेरवनैः, अन्तरान्तरा कैलासतरंगिणीतरंगित-
सिकतिलतलभूमिभाग: पादपैः परिवृतम् चन्द्रप्रभ नाम्नस्तस्य सरस:
पश्चिमे तीरे कैलासपादस्य भूतलभागसंनिविष्टं भगवत: शूलपाणे:
शून्यं सिद्धायतनमपश्यत् ।
 
,
 
,
 
9
 
तच प्रविश्याद्राक्षीत्, चतु:स्तम्भस्फटिकमण्डपिकातलप्रतिष्ठि-
तम्, अमलमुक्ताशिलाघटितलिङ्गम्, अशेषत्रिभुवनवन्दितचरणम्,
चराचरगुरुम्, चतुर्मुखम् भगवन्त त्र्यम्बकम् ।
 
तस्य च दक्षिणां मूर्तिमाश्रित्याभिमुखीमासीनाम्, उपरचि-
तब्रह्मासनाम्, अतिविस्तारिणा सर्वदिङ्मुखप्लावकेनातिदीर्घकालसंचि-
-