This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
लासनिवासव्यसनमुमापतिः । न खलु सांप्रतमाचरति जलशयनदोहदं
देवो रथाङ्गपाणिः, यदिदममृतरससुरभिसलिलमपहाय, लवणरसपरु-
षपयस्युदन्वति स्वपिति । नूनं चेदं न प्रथममासीत्सर:, येन प्रल-
यवराहघोणाभिघातभीता भूतवात्री कलशयोनिपानपरिकलितसक-
लसलिलं सागरमवतीर्णा; अन्यथा यद्यत्रागाधानेकपातालगम्भीराम्भसि
निमना भवेन्महासरसि, किमेकेन महावराहसहस्रैरपि नासादिता
भवेत् । नूनं चास्मादेव सलिललेशमादायादाय महाप्रलयेषु प्रलय-
पयोदा: प्लावयन्ति भुवनान्तराणि । मन्ये च यत्सृष्टेरर्वाक्सलिलमयं
ब्रह्माण्डरूपमादौ भुवनमभूत्, तदिदं पिण्डीभूय सरोव्यपदेशेनावस्थि-
तम्' इति विचारयनेत्र, तस्य शिलाशकलकर्कशवालुकाप्रायम्,
विद्याधरोतसनालकुमुदकलापार्चितानेकचारुसैफत लिङ्गम्, दक्षिणं
तीरमासाद्य तुरगादवततार ।
 
"
 
६२
 
अवतीर्य च व्यपनीतपर्याणमिन्द्रायुधमकरोत् । क्षितितललुठि-
तोत्थितं च गृहीतकतिपययवसप्रासं सरोऽवतार्य, पीतसलिलमिच्छया
स्नातं चोत्थाप्य, अन्यतमस्य समीपवर्तिनस्तरोर्मूलशाखायामपगतखलीनं
हस्तपाशशृङ्खलया कनकमय्या चरणी बद्धा पुनरपि सलिलमव-
ततार । ततश्च प्रक्षालितकरयुगलश्चातक इयं कृत्वा जलमयमाहारं
सर: ललिलादुदगात् । प्रत्यग्रभग्नशिशिरैश्च समृणालकैर्जलकणिकाचितैः
कमलिनीपलाशैलतामण्डपपरिक्षिप्ते शिलातले त्रस्तरमास्तीर्य, निधाय
शिरसि पिण्डीकृतमुत्तरीयम्, निषसाद । मुहूर्त विश्रान्तश्च तस्य
सरस उत्तरे तीरप्रदेशे समुच्चरन्तम्, उन्मुक्तकबलेन निश्चलश्रवणपुटेन
तन्मुखीभूतेनोद्गीवेणेन्द्रायुधेन प्रथममाकर्णितम् श्रुतिसुभगं वीणात-