This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
६१
 
जालमित्र सहिलाकारेण परिणतम् आपूर्णपर्यन्तमप्यन्तः स्पष्टदृष्ट-
सकलवृत्तान्ततया रिक्तमित्रोपलक्ष्यमाणम्, प्रतिमानिभेनान्तः प्रविष्टं
सकानन शैलनक्षत्रग्रह चक्रवालं त्रिभुवनमुद्भिनपङ्कजेनोदरेण नारायण-
मित्र बिभ्राणम्, असकृत्पितामहपरिपूरितकमण्डलुपरिपूतजलम्, अने-
कशो वालखिल्यकदम्बककृतसंध्योपासनम् बहुश: सलिलावतीर्ण-
सावित्रीभग्नदेवतार्चनकमलसहस्रम् सहस्रशः सप्तर्षिमण्डलस्नान-
पवित्रीकृतम्, क्वचिद्रुणहंसोपात्तकमलवनमकरन्दम्, क्वचिव्यम्ब-
कवृषभविषाणकोटिखण्डिततटशिलाखण्डम् क्वचिद्यममहिपशृङ्गशि-
खरविक्षिप्तफेनपिण्डम्, क्वचिदैरात्रतदशनमुसलखण्डितकुमुद खण्डम्,
अदृष्टान्तम् अतिमनोहरम् आह्लादनं दृष्टे: अच्छोदं नाम सरो
 
,
 
दृष्ट्वान् ।
 
,
 
"
 
'अहो
 
आलोकमात्रेणैवापगतश्रमो दृष्ट्वा मनस्येवमकरोत्
निष्फलमपि मे तुंरगमुख मिथुनानुसरणमेतदालोकयतः सर: सफल-
तामुपगतम् । अद्य परिसमाप्तमीक्षणयुगलस्य द्रष्टव्यदर्शनफलम् ।
आलोकित: खलु रमणीयानामन्त: । दृष्ट आह्लादनीयानामवधिः ।
* वीक्षिता मनोहराणां सीमान्तलेखा । प्रत्यक्षीकृता प्रीतिजननानां परि-
समाप्ति: । विलोकिता दर्शनीयानामवसानभूमिः । इदमुत्पाद्य सरःस-
लिलम्मृतरसमुत्पादयता वेधसा पुनरुक्ततामिव नीता स्वसृष्टिः । इद-
मपि खल्वमृतमित्र सर्वेन्द्रियाह्लादनसमर्थम् । अतिविमलतया चक्षुषः
प्रीतिमुपजनयति । शिशिरतया स्पर्शसुखमुपहरति । कमलसुगन्धितया
घ्राणमाप्याययति । हंसमुखरतया श्रुतिमानन्दयति । स्वादुतया रसना-
माह्लादयति । नियतं चास्यैत्र दर्शनतृष्णया न परित्यजति भगवान्कै