This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
५९.
 
आरूढे च तस्मिन्, शनैः शनैस्तदनुसारिणीं निवर्त्य दृष्टिम्,
अचल, शेखर प्रस्तर प्रतिहतगतिप्रसरो विवृततुरंगमञ्चन्द्रापीड, तस्मिन्
काले, समारूढ श्रमस्वेदाईशरीरमिन्द्रायुधमात्मानं चावलोक्य, क्षण-
मित्र विचार्य, स्वयमेव विहस्याचिन्तयत् - "किमिति निरर्थकमयमात्मा
मया शिशुनेवायासितः । किमनेन गृहीतेनागृहीतेन वा किंनरयुग-
लेन प्रयोजनम् । यदि गृहीतमिदम्, ततः किम् । अथ न गृहीतम्,
ततोऽपि किम् । अहो मे मूर्खतायाः प्रकारः । अहो यत्किंचनकारिता-
यामादरः । अहो निरर्थकव्यापारेष्वभिनिवेश: । अहो बालिशचरिते-
ष्वासक्तिः । साधुफलं कर्म क्रियमाणं वृथा जातम् । अवश्यकर्तव्या
क्रिया प्रस्तुता विफलीभूता । राजधर्म: प्रवर्तितो न निष्पन्नः ।
गुर्थ: प्रारब्धो न परिसमाप्त: । विजिगीषु व्यापार प्रयत्तो न सिद्धः ।
'कस्मादहमाविष्ट इवोत्सृष्टनिजपरिवार: एतावतीं भूमिमायातः ।
कस्माच मया निष्प्रयोजन मिदमनुसृतमश्वमुखद्वयम्' इति बिचार्यमाणे
यत्सत्यमयमात्मैव मि पर इव हासमुपजनयति । न जाने – कियता-
ध्वना विच्छिन्नमितो बलमनुयायि मे । महाजवो हीन्द्रायुधो निमेषमात्रे-
णातिदूरमतिक्रामति । न चागच्छता मया तुरगवेगवशात्किंनरमिथुने
बद्रदृष्टिना, अस्मिन्नविरलतरुशतशाखागुल्मलतासंतानगहने निरन्तरप-
तितशुष्कपर्णावकीर्णतले महावने पन्था निरूपित, यन प्रतिनिवृत्य
यास्यामि । न चास्मिन्प्रदेशे प्रयत्नेनाऽपि परिभ्रमता मर्त्यधर्मा
कश्चिदासाद्यते, य: सुवर्णपुरगामिनं पन्थानमुपदेक्ष्यति । श्रुतं हि मया
बहुश: कथ्यमानम्-उत्तरेण सुवर्णपुरं सीमान्तलेखा पृथिव्याः सर्व-
जनपदानाम् ततः परतो निर्मानुषमरण्यम्, तच्चातिक्रम्य कैलास-
www
 

 
#