2023-02-19 13:23:22 by ambuda-bot
This page has not been fully proofread.
५६
कादम्बरीसंग्रहः ।
देन, मुहुर्मुहुरितस्ततस्ताड्यमानानां डिण्डिमानां च निवनेन, जर्ज-
रीकृत श्रवणपुटस्य मूर्च्छवाभवजनस्य ।
क्रमेण च विकचकुवलयवनमिव नवोदकेन गगनतलमवष्टभ्य-
मानमलक्ष्यत क्षीरोदफेनपाण्डुना क्षितिक्षोदेन । बहुलरजोधूसरितमशि-
शिरकिरणचिम्बमत्रचूलचामरमिव निष्प्रभमभवत् । दुकूलपवला कद-
लिकेत्र कलुषतामाजगाम गगनापगा। नरपालबलभरमतिगुरुमसहमा-
ना पुनरित्र भारावतारणार्थममरलोकमारुरोह रजोमिषेण मही ।
अथ दन्तिनां दिशि दिशि करविवरविनिःसृतैः शीकरासारैः
हेषावविप्रकीर्णैश्च वाजिनां लालाजललवजालकैरुपशमिते रजसि,
पुनरुपजातालोकासु दिक्षु, सागरसलिलादिवोन्मग्नमालोक्य तदपरि-
माणं बलम्, उपजातविस्मयः सर्वतो दत्तदृष्टिर्वैशम्पायनश्चन्द्रापीडमा-
बभाषे---- 'युवराज, किं न जितं देवेन महाराजाधिराजेन तारापीडेन,
यज्जेष्यसि । का दिशो न वशीकृताः, या वशीकरिष्यसि । कानि
दुर्गाणि न प्रसाधितानि, यानि प्रसाधयिष्यसि । कानि रत्नानि नोपा-
जितानि, यान्युपार्जयिष्यसि । कैर्न विरचितः शिरसि बालकमलकुड्म-
लकोमल: सेवाञ्जलि: । कैर्न घृष्टाः पादपीठे चूडामणय: । कैर्न प्रति-
पन्ना वेत्रलता: । कैर्नोद्भूतानि चामराणि । कैर्नोच्चारिता जयशब्दाः ।
ते हि दशरथभगीरथभरत दिलीपालर्कमान्धातृप्रतिमा: कुलाभिमान -
शालिन: सोमपायिनो मूर्धाभिषिक्ताः पृथिव्यां सर्वपार्थिवाश्चूडामणि-
पल्लवैरुद्वहन्ति मङ्गल्यां भवच्चरणरज : संहतिम् । एतानि चाप्यमीषामा-
प्लावितदशदिगन्तरालानि सैन्यानि भवन्तमुपासते । तथाहि पश्य
े
पश्य यस्यां यस्यां दिशि विक्षिप्यते चक्षुः तस्यां तस्यां रसातलमि-
,