This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
५५
 
षितावयवेन च समाकृष्यमाणेनेन्द्रायुधेन सनाथीकृतपुरोभागः, शनैः
शनै: प्रथममेव शातक्रतवीमाशामभिप्रतस्थे ।
 
उच्चलितस्य चास्य, स्वभवनादुपपादितप्रस्थानमङ्गल:, धवल-
ढुकूलवासाः, सितकुसुमाङ्गरागः, महता बलसमूहेन नरेन्द्रबृन्दैश्चानुग-
म्यमान:, वृतधवलातपत्र:, द्वितीय इव युवराजः, त्वरितपदसंचारिण्या
करिण्या वैशम्पायन: समीपमाजगाम । आगत्य च रजनिकर इव
खेरासन्नवर्ती बभूव । अनन्तरमितश्चेतश्च 'निर्गतो युवराजः' इति
समाकर्ण्य प्रधावतां बलानां भरेण तत्क्षणमाचकम्पे मेदिनी । क्षणेन
च तुरगमयमिव महीतलम्, कुञ्जरमयमित्र दिक्चक्रवालम्, आतपत्र--
मण्डलमयमित्रान्तरिक्षम्, इभमदगन्धमय इव समीरण:, भूपाल-
मयीव प्रजासृष्टि, आभरणांशुमयीव वृष्टिः, किरीटमय इव दिवस:,
जयशब्दमयमिक त्रिभुवनमभवत् ।
 
बलबहुलकोलाहलमीता इव धवलध्वजनित्रहनिरन्तरावृता ययुः
क्वापि दश दिश: । मलिनावनिरज: संस्पर्शशङ्कितमिव समदगज -
घटावचूलसहस्रसंरुद्धमतिदूरमम्बरतलमपससार । प्रबलवेत्रिवेत्रलता--
समुत्सार्यमाणा इत्र तुरगखुररजोधूसरताभीता इवार्ककिरणा मुमुचुः
पुरोभागम् । इभकरशीकर निर्वापणत्रस्त इवातपत्रसंछादितातपो दिवसो
ननाश । क्रमेण प्रसर्पतो बलस्य पुरः प्रधावतां जनकदम्बकानां
कोलाहलेन, तारतरदीर्घेण च काहलानां निनादेन, खुररत्रवि मिश्रेण
च वाजिनां हेपारवेण, अनवरत कर्णतालस्वरसंपृक्तेन च दन्तिनामा-
डम्बररत्रेण, मङ्गलशङ्खशब्दसंवर्धितध्वनीनां च प्रयाणपटहानां निना-