This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
,
 
9
 
तदेवंप्रायेऽ तिकुटिलकष्ट चेष्टासहस्रदारुणे राज्यतन्त्रेऽस्मिन्
महामोहकारिणि च यौवने, कुमार तथा प्रयतेथा:; यथा नोपह-
स्यसे जनैः, न निन्द्यसे साधुभिः, न धिक्कियसे गुरुभि:, नोपा-
लभ्यसे सुहृद्भिः, न शोच्यसे विद्वद्भिः । यथा च न प्रहस्यसे
विटैः, न प्रतार्यसे कुशलै:, नावलुप्यसे सेवकवृकैः, न प्रलोभ्यसे
बनिताभिः, नापहियसे मुखेन । कामं भवान्प्रकृत्यैव धीरः, पित्रा
च महता प्रयत्नेन समारोपितसंस्कार: । तरलहृदयमप्रतिबुद्धं च
मदयन्ति धनानि । तथापि भवद्गुणसंतोषो मामेवं मुखरीकृतवान् ।
इदमेव च पुन: पुनरभिधीय से- विद्वासमपि सचेनतमपि महासत्त्वम
प्यभिजातमपि वीरमपि प्रयत्नवन्तमपि पुरुषमियं दुर्विनीता खलीक-
रोति लक्ष्मीरिति । सर्वथा कल्याणै: पित्रा क्रियमाणमनुभवतु भवा-
न्यौवराज्याभिषेकमङ्गलम् । कुलक्रमागतामुद्रह पूर्वपुरुषैरूढां धुरम् ।
अवनमय द्विपता शिरांसि । उन्नमय बन्धुवर्गम् । अभिषेकानन्तरं च
प्रारब्धदिग्विजय: परिभ्रमन्विजितामपि तव पित्रा सप्तद्वीपभूषणां
पुनर्विजयस्व वसुंधराम् । अयं च ते काल: प्रतापमारोपयितुम् ।
आरूढप्रतापो हि राजा त्रैलोक्यदर्शीव सिद्धादेशो भवति' इत्येतावद-
भिवायोपशशाम ।
 
५३
 
-
 
उपशान्तवचसि शुकनासे, चन्द्रापीडस्ताभिरमलाभिरुपदेश-
वाग्मि: प्रक्षालित इवोन्मीलित इव पवित्रीकृत इवोद्भासित इव प्रीत-
हृदयो मुहूर्ते स्थित्वा स्वभवनमाजगाम ।
 
-
 
ततः कतिपयदिवसापगमे च, राजा स्वयमुत्क्षिप्तमङ्गलकलश:,
सह शुकनासेन, पुण्येऽहनि, पुरोधसा संपादिताशेषराज्याभिषेकम-