2023-02-19 13:23:21 by ambuda-bot
This page has not been fully proofread.
५०
कादम्बरीसंग्रहः ।
न कुलक्रममनुवर्तते । न शीलं पश्यति । न श्रुतमाकर्णयति । न
धर्ममनुरुध्यते । न त्यागमाद्रियते । न विशेषज्ञतां विचारयति । गन्ध-
र्वनगरलेखेव पश्यत एत्र नश्यति । अद्याप्यारूढमन्दरपरिवर्तभ्रान्ति-
जनितसंस्कारेव परिभ्रमति । पारुष्यमित्रोपशिक्षितुम सिधारासु निवसति ।
दिवसकरगतिरिव प्रकटितविविधसंक्रान्ति: । पातालगुहेव तमोबहुला ।
प्रावृडिवाचिरद्युतिकारिणी । स्वल्पसत्त्वमुन्मत्तीकरोति । सरस्वतीपरिगृ-
हीतमीर्ष्ययेव नालिङ्गति जनम् । गुणवन्तमपवित्रमिव न स्पृशति ।
उदारसत्त्वममङ्गलमिव न बहु मन्यते । सुजनमनिमित्तमित्र न
पश्यति । अभिजातमहिमिव लङ्घयति । शूरं कण्टकमित्र परिहरति ।
दातारं दुःस्वप्नमिव न स्मरति । विनीतं पातकिनमिव नोपसर्पति ।
मनस्विनमुन्मत्त मिवोपहसति ।
यथा यथा चेयं चपला दीप्यते, तथा तथा दीपशिखेव कज्ज-
लम लिनमेव कर्म केवलमुद्वमति । तथाहि — इयं संवर्धनवारिधारा
तृष्णाविषवल्लीनाम्, व्याधगीतिरिन्द्रियमृगाणाम् परामर्शधूमलेखा
सञ्चारित चित्राणाम्, विभ्रमशय्या मोहदीर्घनिद्राणाम्, आवासदरी दोपा-
शीविषाणाम् अकालप्रावृट् गुणकलहंसकानाम्, प्रस्तावना कपट-
नाटकस्य, राहुजिह्वा धर्मेन्दुमण्डलस्य ।
,
न हि तं पश्यामि, यो ह्यपरिचितयानया न निर्भरमुपगूढः, यो
वा न विप्रलब्ध: । नियतमियमालेख्यगतापि चलति, श्रुताप्यभिसं-
धत्ते, चिन्तितापि वञ्चयति । एवंविधयापि चानया दुराचारया कथमपि
दैववशेन परिगृहीता विक्कुबा भवन्ति राजानः, सर्वाबिनयाधिष्ठा-
नतां च गच्छन्ति । तथाहि - अभिषेकसमय एवैषां मङ्गलकलश-