This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
करगमस्तयो विशन्ति सुखमुपदेशगुणाः । गुरुवचनममलमपि सलि-
लभित्र महदुपजनयति श्रवणस्थितं शूलमभव्यस्य । इतरस्य तु करिण
इव शङ्खाभरणमाननशोभासमुदयमधिकतरमुपजनयति । हरति च
सकलम तिमलिनमप्यन्धकारमित्र दोषजातं प्रदोषसमयनिशाकर इव
गुरूपदेश: । अयमेव चानास्वादित विषयरसस्य ते काल उपदेशस्य ।
कुसुम शरशरप्रहारजर्जरिते हि हृदये जलमिव गलत्युपदिष्टम् । अका-
रणं च भवति दुष्प्रकृतेरन्वयः श्रुतं वा विनयस्य । चन्दनप्रभवो न
दहति किमनल: ? किंवा प्रशमहेतुनापि न प्रचण्डतरीभवति
बडबानलो वारिणा ? गुरूपदेशश्च नाम पुरुषाणाम खिलमलप्रक्षालन-
क्षममजलं स्नानम्, अनुपजातपलिता दिवैरू प्यमजरं वृद्धत्वम्, असु-
वर्णविरचनमग्राम्यं कर्णाभरणम् । विशेषेण तु राज्ञाम् । विरला
तेषामुपदेष्टारः । प्रतिशब्दक इव राजवचनमनुगच्छति जनो भयात् ।
उद्दामदर्पश्वयथुस्थगितश्रवणविवराश्चोपदिश्यमानमपि ते न शृण्वन्ति ।
शृण्वन्तोऽपि च गजनिमीलितेनावधीरयन्तः, खेदयन्ति हितोपदेशदा-
यिनो गुरून् । अहंकारदाहज्वरमूर्छान्धकारिता विहला हि राजप्रकृतिः ।
 
आलोकंयतु तावत्कल्याणाभिनिवेशी लक्ष्मीमेच प्रथमम् ।
इयं हि लक्ष्मी: क्षीरसागरात्, इन्दुशकलादेकान्तवकताम्, उच्चैःश्रवस -
श्चञ्चलताम्, कालकूटान्मोहनशक्तिम्, मदिराया मदम्, कौस्तुभ-
मणेरतिनैष्टुर्यम्, इत्येतानि सहवासपरिचयवशाद्विरहविनोदचिह्ह्नानि
गृहीत्वैचोद्गता । न ह्येवंविधमपरमपरिचितमिह जगति किंचिदस्ति,
यथेयमनार्या । लब्धापि खलु दुःखेन परिपाल्यते । दृढगुणपाशसं-
दाननिस्पन्दीकृतापि नश्यति । न परिचयं रक्षति । नाभिजनमीक्षते ।