This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
४७
 
1
 
न्मुहूर्तमिव स्थित्वा, इन्द्रायुधसमीपमगमत् । तत्र चानुवर्षिष्ट एव तद्गु-
गोपवर्णनप्रायालापा: कथा: कृत्वा स्वयमेवेन्द्रायुधस्य पुरो यवसमा-
कीर्य निर्गय राजकुलमयासीत् । तेनैव क्रमेणावलोक्य राजानम्,
आगत्य मिशामनैषीत् ।
 
अपरेद्युश्च प्रभातसमय एव सर्वान्तः पुराधिकृतम्, अनुमार्गागतया
शक्रगोपकालोहितरागेणांशुकेन रचितावगुण्ठनया समसुवृत्ततुङ्गना-
सिकया विकसितपुण्डरीकधवललोचनया महानुभावाकारयानुगम्यमानं
कन्यकया, कैलासनामानं कञ्चुकिनमायान्तमपश्यत् ।
 
स कृतप्रणाम: समुपसृत्य क्षितितलनिहितदक्षिणकरो विज्ञाप-
यामास — 'कुमार, महादेवी विलासवती समाज्ञापयति- इयं खलु
कन्यका महाराजेन पूर्व कुलतराजधानीमवजित्य कुल्लुतेश्वरदुहिता
पत्रलेखाभिधाना बालिका सती बन्दीजनेन सहानीयान्तः पुरपरिचा-
रिकामध्यमुपनीता । सा मया विगतनाथा राजदुहितेति समुपजात-
स्नेहया दुहितृनिर्विशेषमियन्तं कालमुपलालिता संवर्धिता च । तदि-
यमिदानीमुचिता भवतस्ताम्बूलकरङ्कवाहिनीति कृत्वा मया प्रेषिता ।
न चास्यामायुष्मता परिजनसामान्यदृष्टिना भवितव्यम् । स्वचित्तवृ
तिरिव चापलेभ्यो निवारणीया । सुहृदिव सर्ववित्रम्भेष्वभ्यन्तरी-
करणीया । दीर्घकालसंवर्धित स्नेहतया स्वसुताया मित्र हृदयमस्यामस्ति
मे । नियतं स्वयमेवेयमतिविनीततया कतिपयैरव दिवसैः कुमा-
रमाराधयिष्यति । अविदितशीलश्चास्याः कुमार इति संदिश्यते ।
सर्वथा तथा कल्याणिना प्रयतितव्यम् यथेयमतिचिरमुचिता परि-
चारिका ते भवति' इत्यभिधाय विरतवचसि कैलासे, कृताभिजातप्र-
3