This page has not been fully proofread.

४६
 
कादम्बरीसंग्रहः ।
 
तत्र च कर्णान्तावकृष्टमुक्तैर्नाराचैर्वनवराहान् केसरिण: कुरङ्गकांश्च
सहस्रशो जघान । अन्यांश्च जीवत एव महाप्राणतया स्फुरतो जग्राह ।
 
समारूढे च मध्यमङ्कः सत्रितरि, वनात्, स्नानोत्थितेनेव श्रम-
सलिल बिन्दुवर्षमनवरतमुज्झता श्रमशिथिलमुखगलितफेनिलरुधिरल-
वेनेन्द्रायुवे नोह्यमान:, दूरविछिन्न पदातिपरिजनेन शून्यीकृतपुरो-
भाग:, प्रजवितुरंगमाधिरूढैररूपावशिष्टैः सह राजपुत्रैः एवं मृग-
पतिः, एवं वराहः, एवं शरभः' इति तमेत्र मृगयावृत्तान्तमुच्चारयन्,
 
स्वभवनमाजगाम ।
 
अवतीर्य च तुरंगमात्ससंभ्रमप्रधावितपरिजनोपनीते समुप-
त्रिश्यासने, वारवाणमवतार्य, अपनीय चाशेषं तुरंगमाधिरोहणोचितं
वेषपरिगृहम् इतस्तत: प्रचलिततालवृन्तपवनापनीयमानश्रमो मुहूर्ते
विशश्राम । विश्रम्य च मणिरजतकनककलशशतसनाथां स्नानभूमि-
मगात् । निर्वर्तिताभिषेकव्यापारस्य च कृतदेवतार्चनस्याङ्गरागभूमौ
समुपविष्टस्य, राज्ञा विसर्जिता राजकुलपरिचारिका: पटलकविनिहि-
तानि विविधान्याभरणानि माल्यान्यङ्गरागान्वासांसि चादाय, पुरतस्त-
स्योपतस्थुः, उपनिन्युश्च । यथाक्रममादाय च ताभ्य: प्रथमं स्वयमु-
पलिप्य वैशम्पायनम्, उपरचिताङ्गरागः, दत्वा च समीपवर्तिभ्यो
यथार्हमाभरणवसनाङ्गरागकुसुमानि, आहारमण्डपमगच्छत् ।
 
"
 
तत्र च द्विगुणीकृतकुथासनोपविष्ट: समीपोपविष्टेन तद्गुणोप-
वर्णनपरेण वैशम्पायनेन यथार्हभूमिभागोपवेशितेन राजपुत्रलोकेन
' इदम स्मै दीयताम्, इदम स्मै दीयताम्' इति प्रसादविशेषदर्शनसंवर्धि-
तसेवारसेनाहार विधिमकरीत् । उपस्पृश्य च गृहीतताम्बूलस्तस्मि-
>