This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
स्थिते शयने मुहूर्तमुपविश्य, सह तेन राजपुत्रलोकेनाभिषेकादिकम-
शनावसानमकरोद्दिवसविधिम् । अभ्यन्तरे च स्वशयनीयगृह एवेन्द्रा-
युवस्थावस्थानम कल्पयत् ।
 
एवंप्रायेण चास्योदन्तेन तदहः परिणतिमुपययौ । मगनतला-
दवतरन्त्या दिवसश्रियः पद्मरागनूपुरमित्र स्वप्रभापिहितरन्ध्रं रवि-
मण्डलमुन्मुक्तपादं पपात । कमलिनीपरिमलपरिचयागतालिमाला-
कुलितकण्ठं कालपाशैरिव चक्रवाकमिथुनमाकृष्यमाणं विजघटे ।
 
क्रमेण च प्रतीचीकर्णपूररक्तोत्पले लोकान्तरमुपगते भगवति
गभस्तिमालिनि, कमलिनी निपीतमातपमुन्मूलयितुमन्धकारपल्लवेष्विव
विशत्सु रक्तकमलोदराणि मधुकरकुलेषु, शनैः शनैश्च गलिते संध्या-
रागे, दिक्षु दिक्षु विक्षिप्तेषु संध्यादेव तार्चनबलिपिण्डेपु, कृतराजस्व-
स्त्ययनेषु निष्कामत्सु पुरोहितेपु, प्रज्वलितदीपिकासहस्रप्रतिबिम्ब-
चुम्बितेषु कृतविकचचम्पकदलोपहारेष्विव मणिभूमिकुट्टिमेषु, सूर्य-
कान्तमणिभ्य इव । संक्रान्तानलेपु ज्वलत्सु मानिनीना शोकविधुरेषु
हृदयेपु, प्रवृत्ते प्रदोषसमये, चन्द्रापीडो राजकुल गत्वा पितुः समीप
मुहूर्ते स्थित्वा, दृष्ट्वा च विलासवतीम्, आगल स्वभवनं शयनतल-
मधिशिश्ये ।
 
४५
 
-
 
प्रभाताया च निशीथिन्याम् समुत्थाय समभ्यनुज्ञात: पित्रा,
अभिनवमृगयाकौतुकावऋष्यमाणहृदय., भगवत्यनुदित एव सहस्ररश्मो,
आरुह्येन्द्रायुधम् अग्रतो बालेयप्रमाणानाकर्षद्भिश्चामीकरशृङ्खलाभिः
कौलेयकान् कोदण्डपाणिभिः श्वपोषकैरनवरतकृत फोलाहलै : प्रधावद्भि-
द्विगुणीक्रियमाणगमनोत्साह, बहुगजतुरगपदातिपरिवृतो वनं ययाँ ।